Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 11
________________ स्वोपज्ञलघुवृत्तिः। नाम्नि वा ।१।२।१०। उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह आर् वा स्यात् । पार्षभीयति । प्रर्षभीयति ॥ १० ॥ लुत्याल्वा ।१।२।११। उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लता सह आला स्यात् । उपाल्कारीयति । उपल्कारीयति ॥ ११ ॥ ऐदौत् सन्ध्य क्षरैः ।१।२।१२। अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् । तवैषा । खदे॒षा । तबैन्द्री । सैन्द्री। तबौदनः । तवौपगवः ॥ १२ ॥ - ऊटा।१।२।१३। अवर्णस्य परेण ऊटा सह औः स्यात् । धौतः । धौतवान् ॥ १३ ॥ प्रस्यैषैष्योढोढ्यूहे स्वरेण । १।२।१४। पावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् । प्रेषः । प्रैष्यः । प्रौढः । प्रौढिम्म प्रौहः ॥ १४ ॥ स्वैरस्वैर्यक्षौहिण्याम् । १।२।१५। स्वैरादिष्वऽवर्णस्य परेण स्वरेण सह ऐ औ स्याताम् । स्वैरः । स्वैरी। अक्षौहिणी सेना ॥ १५॥ अनियोगे लुगेवे ।१।२।१६ । अनियोगो अनवधारणं तद्विषये एवे परेऽवर्णस्य लुक् स्यात् । इहेव तिष्ठ। अद्येव गच्छ । नियोगेतु । इहैव तिष्ठ मागाः॥ १६ ॥ वौष्ठौतौ समासे । १।२।१७।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 588