________________
स्वोपज्ञलघुवृत्तिः। नाम्नि वा ।१।२।१०। उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह आर् वा स्यात् । पार्षभीयति । प्रर्षभीयति ॥ १० ॥
लुत्याल्वा ।१।२।११। उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लता सह आला स्यात् । उपाल्कारीयति । उपल्कारीयति ॥ ११ ॥
ऐदौत् सन्ध्य क्षरैः ।१।२।१२। अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् । तवैषा । खदे॒षा । तबैन्द्री । सैन्द्री। तबौदनः । तवौपगवः ॥ १२ ॥
- ऊटा।१।२।१३।
अवर्णस्य परेण ऊटा सह औः स्यात् । धौतः । धौतवान् ॥ १३ ॥ प्रस्यैषैष्योढोढ्यूहे स्वरेण । १।२।१४।
पावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् । प्रेषः । प्रैष्यः । प्रौढः । प्रौढिम्म प्रौहः ॥ १४ ॥
स्वैरस्वैर्यक्षौहिण्याम् । १।२।१५।
स्वैरादिष्वऽवर्णस्य परेण स्वरेण सह ऐ औ स्याताम् । स्वैरः । स्वैरी। अक्षौहिणी सेना ॥ १५॥
अनियोगे लुगेवे ।१।२।१६ । अनियोगो अनवधारणं तद्विषये एवे परेऽवर्णस्य लुक् स्यात् । इहेव तिष्ठ। अद्येव गच्छ । नियोगेतु । इहैव तिष्ठ मागाः॥ १६ ॥
वौष्ठौतौ समासे । १।२।१७।