SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् । बिम्बोष्ठी । बिम्बोष्ठी । स्थूलोतुः । स्थूलौतुः । समासइति किम् हे पुत्रौष्ठपश्य ॥ १७ ॥ ओमाङि । १ । २ । १८ । अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अद्योम् । सोम् । आऊढा । ओढा । अद्योढा । सोढा ॥ १८ ॥ उपसर्गस्यानिषेधेदोति । १ । २ । १९ । उपसर्गवर्णस्य इणेधिवर्जे एदादावादादौ च धातौ परे लुक् स्यात् । प्रेलयति । परेलयति । प्रोषति । परोषति । अनिणेधितिकिम् । उपैति । प्रैधते ॥ १९॥ वानाम्नि । १ । २ । २०। नामTara दादावोदादौ च धातौ परे उपसर्गावर्णस्य लुग वा स्यात् । उपेकीयति । उपैकीयति । प्रोषधीयति । प्रौषधीयति ॥ २० ॥ इवर्णादेरस्वेस्वरे यवरलम् । १ । २ । २१ । इ उ ऋ ऌ वर्णानामस्वे स्वरे परे यथासंख्यं य व र ल इत्येते स्युः । दध्यत्र । नद्येषा | मध्वत्र । वध्वासनं । पित्रर्थः । क्रादिः । लित् । लाकृतिः ॥ २१ ॥ ह्रस्वोऽपदे वा । १ । २ । २२ । " वर्णादीनामस् वरे परे ह्रस्वो वा स्यात् । नचेत्तौ निमित्तनिमि त्तिनावेकत्र पदे स्याताम् । नदिएषा । नद्येषा । मधुअत्र | मध्वत्र । अपद इतिकिम् । नद्यौ । नद्यर्थः ॥ २२ ॥ एदैतोऽयाय । १ । २ । २३। एदैतोः स्वरे परे यथासंख्यं अय् आय् इत्येतौ स्याताम् । नयनम् । वृक्षयेव । नायकः । रायैन्द्री ॥ २३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy