SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः ओदौतोऽवाव । १ । २ । २४ । ओदौतोः स्त्ररे परे यथासंख्यं अव् आव् इत्येतौ स्याताम् । लवनम् । पटवोतुः । लावकः । गावौ ॥ २४ ॥ य्यक्ये । १ । २ । २५ । ११ ओदौतोः क्वर्जे यादौ प्रत्यये परे यथासंख्यमव् आवौ स्याताम् । गव्यति । गव्यते । नाव्यति । नाव्यते । लव्यम् । लाव्यम् । अक्य इतिकिम् । उपोयते । औयत ॥ २५ ॥ ऋतो रस्तद्धिते । १ । २ । २६ । ऋकारस्य यादौ तद्धिते परे रः स्थात् । पित्र्यम् । तद्धित इतिकिम् । कार्यम् ॥ २६ ॥ एदोतः पदान्तेऽस्य लुक् । १ । २।२७| एदोद्भयां पदान्तस्थाभ्यां परस्याकारस्य लुक् स्यात् । तेऽत्र । पटोsa | पदान्त इतिकिम् | नयनम् ॥ २७ ॥ मोर्नाम्न्यवोऽक्षे । १ । २ । २८ । 1 गोरोतः पदान्तस्थस्य अक्ष परे संज्ञायां अव इति स्यात् । गवाक्षः नाम्नीतिकिम् । गोक्षाणि ॥ २८ ॥ स्वरे वाऽनक्षे । १ । २ । २९ । गोरोतः पदान्तस्थस्य स्वरे परे अव इति वा स्यात् । सचेतस्वरो क्षस्थो न स्यात् । गवाग्रम् । गो ऽयम् । गवेशः । गवीशः । अनक्ष इतिकिम् | गोक्षम् । अत इतिकिम चित्रग्वर्थः ॥ २९ ॥ इन्द्रे । १ । २ । ३० । गोरोतः पदान्तस्थस्य इन्द्रस्थेस्वरे परे अव इति स्यात् । गवेन्द्रः ||३०||
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy