SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य वात्यऽसन्धिः । १ । २। ३१ । गोरोतः पदान्तस्थस्याकारे परेऽसन्धिभावो वा स्यात् । गोअग्रम् । गवाग्रम् । गोऽयम् । अतीतिकिम् । गवेङ्गितम् ॥ ३१ ॥ प्लुतोनितौ । १ । २ । ३२। इतिवर्जे स्वरे परे प्लुतः सन्धिभाग्न स्यात् । देवदत्त ३ अत्रन्वसि । अनिताविति किम् सुश्लोकेति ॥ ३२ ॥ इ ३ वा । १ । २ । ३३ । इ स्थानः प्लुतः स्वरे परे सन्धिर्वा स्यात् । लुनीहि ३ इति । लुनीहीति ॥ ३३ ॥ १२ ईदूदेदद्विवचनम् । १ । २।३४। ईए इत्येवमन्तं द्विवचनान्तं स्वरे परेऽसन्धिः स्यात् । मुनीइह । सातौ । माले इमे । पचेते इति इदूदेदिति किम् वृक्षावत्र । द्विवचनमिति किम् । कुमार्यत्र ॥ ३४ ॥ अदो मुमी । ९ । २ । ३५ । 1 अदसः सम्बन्धिनौ मुमी इत्येतौ वरे परे ऽसन्धी स्याताम् । अमुमुईचा | अमीअश्वाः || ३५ ॥ चादिः स्वरो ऽनाडू । १ । २ । ३६ । आवर्जश्वादिः स्वरः स्वरे परे ऽसन्धिः स्यात् । अअपेहि । इ इन्द्रम पश्य । उ उत्तिष्ठ । आ एवं किल मन्यसे । आ एवं नुतत् । अनाङिति किम् । आ इहि । एहि ॥ ३६ ॥ ओदन्तः । १ । २ । ३७। ओदन्तश्चादिः स्वरे परेsसन्धिः स्यात् । अहो अत्र ॥ ३७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy