Book Title: Siddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti Author(s): Hemchandracharya, Publisher: Yashovijay Jain Pathshala View full book textPage 5
________________ स्वोपज्ञलघुत्तिः । वर्गाणामाद्यद्वितीया वर्णाः शषसाश्चाघोषाः स्युः । क ख । च छ । ट ठ । त थ । प फ । श ष स ॥ १३ ॥ अन्यो घोषवान्।१।१।१४। अघोषेभ्योऽन्यः कादिर्वों घोषवान् स्यात् । गघङ । ज झ ञ। ड ढ ण । द ध न । ब भ म । य र ल व ह ॥ १४ ॥ यरलवा अन्तस्थाः ।१।१।१५॥ एते अन्तस्थाः स्युः ॥ १५ ॥ अंअः क x पशषसाः शिट।१।१।१६। अकपा उच्चारणार्थाः अनुस्वारविसर्गो. वजगजकुम्भाकृती च वर्गों शपसाश्च शिटः स्युः ॥ १६ ॥ तुल्यस्थानास्यप्रयत्नः स्वः । १।१।१७। स्थानं कण्ठादि । अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा।। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालुच॥१॥ आस्पे प्रयत्न आस्यप्रयत्नः स्पृष्टतादिः । तुल्यौ वर्णान्तरेण सदृशौ। स्थानास्यप्रयत्नौ यस्य स वर्णस्तंप्रति स्वः स्यात् । तत्र त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येक सानुनासिकनिरनुनासिकभेदात् षट् । एवं दीर्घप्लुतावित्यष्टादशभेदा अवर्णस्य । ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः । एवमिवर्णास्तावन्तस्तालव्या विवृतकरणाः खाः। उवर्णा ओष्ठया विवृतकरणाः स्वाः।ऋवर्णा मूर्द्धन्या विवृतकरणाः परस्परं स्वाः। लवर्णा दन्त्या विवृतकरणाः परस्परं स्वाः। सन्ध्यक्षराणां इस्वा न सन्तीति । तानि प्रत्येकं. द्वादशभेदानि । तत्र एकारास्तालव्या विवृततराः स्वाः । ऐकारास्तालव्याः अतिविवृततराः स्वाः। ओकाराओष्ठ्या विवृततराः स्वा। औकारा ओष्ठया अतिविवृततराः स्वाः। वाः पञ्च पञ्च परस्परं स्वाः। यलवानामनुनासिकोननुनासिकश्च द्वौ भेदौ परस्परं खौ ॥ १७ ॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 588