Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 361
________________ ३३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पौन:पुनिकः] पुनःपुनर्भवः = पौन:पुनिकः । 'वर्षा-कालेभ्यः' (६।३८०) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'प्रायोऽव्ययस्य' (७।४।६५) अलुक् ॥छ। भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ॥ ७४७३ ॥ [भृशाऽऽभीक्ष्ण्याऽविच्छेदे] भृशं च आभीक्ष्ण्यं च अविच्छेदश्च = भृशाऽऽभीक्ष्ण्याऽविच्छेदम्, तस्मिन् । [द्विः] द्वौ वारावस्य = द्विः । 'द्वि-त्रि-चतुरः सुच्' (७।२।११०) सुचप्र० । [प्राक् ] प्राक् प्रथमा सि । [तमबादेः] तमप् आदिर्यस्य सः = तमबादिः, तस्मात् । क्रियायाः साकल्यमवयवक्रियाणां कायं भृशार्थः, पौनःपुन्यमाभीक्ष्ण्यम्, सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः । [लुनीहि लुनीहीत्येवायं लुनाति ] 'लूग्श् छेदने' (१५१९) लू । पञ्चमी हि । 'त्र्यादेः' (३।४७९) श्नाप्र० →→ ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) ई । 'प्वादेर्हस्वः' (४।२।१०५) हुस्वः । अनेन द्विवचनम् । [अधीष्वाधीष्वेत्येवायमधीते ] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । पञ्चमी स्व । 'नाम्यन्तस्था-कवर्गात्।' (२।३।१५) षत्वम् । 'समानानां०' (११२१) दीर्घः । अनेन द्विवचनम् । [भोज भोजं व्रजति ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । अभीक्ष्णं भोजनं पूर्व = भोजम् । 'ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन द्विवचनम् । [भुक्त्वा भुक्त्वा व्रजति ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । अभीक्ष्णं भोजनं पूर्वं = भुक्त्वा । 'ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१२८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० । अनेन द्विर्वचनम् । [पचति पचति ] 'डुपचीष् पाके' (८९२) पच् । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन द्विवचनम् । [अधीते अधीते ] 'इंङ् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त० ते । 'समानानां०' (१।२।१) दीर्घः । अनेन द्विवचनम् । [ब्रह्मचर्यं चरति चरति ] ब्रह्मन् 'चर भक्षणे च' (४१०) चर् । ब्रह्मणश्चरणं = ब्रह्मचर्यम् । 'चरेराङस्त्वगुरौ' (५।१।३१) यप्र० । अम् । चरति अनेन द्विवचनम् । भृशादयः क्रियाधर्मा इति क्रियापदमेवात्र सम्बध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विवचनं भवति । यथा [पुनः पुनः पचति] पुनः 'क्रियाविशेषणात्' (२।२।४१) अम् । पचति । एवमग्रेऽपि । यदा तु सतोऽपि क्रियाविशेषणत्वस्य क्रियाविवक्षता न विवक्षते तदा 'नवा गुणः सदृशे रित्' (७।४।८६) इति सादृश्ये द्विर्वचनं भवति । यथा [मन्दं मन्दं नुदति ] मन्दं मन्दं 'णुदत् प्रेरणे' (१३७०) णुद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नुद् । वर्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० । ॐ मध्यमवृत्तौ-बृहद्वृत्तौ-तुदति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450