Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 398
________________ सप्तमाध्यायस्य चतुर्थः पादः ॥ ३७५ एकार्थीभावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः सङ्गतार्थः संसृष्टार्थो वा पदानां स्वार्थो गौणः समासार्थस्तु प्रधानमिति सङ्गतार्थ(:) संसृष्टार्थपदविधौ तु समासार्थ एव विधो(धौ) तु समासार्थ एव इति स्पोटवादिमतम् । अत्र च पदानि उपसर्जनीभूतस्वार्थानि निवृत्तस्थानानि वा प्रधानार्थोपादानात् व्यर्थानि अर्थान्तराभिधायीनि वा एकस्तावत् प्रधानोऽर्थः अपरः स्वार्थ इति व्यर्थता, अर्थान्तरं समासार्थलक्षणं तदभिधायीनि भवति । पदविधिश्च समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति । तत्र समासः-द्वितीया 'श्रितादिभिः' (३।१।६२) धर्म श्रितः = धर्मश्रितः । एषु पूर्वोत्तरपदयोर्वाक्यावस्थायां परस्परकाङ्खालक्षणा व्यपेक्षा । वृत्त्यवस्थायां तु पृथगर्थानां सतामेकार्थीभाव इति । तथाहि - धर्ममित्येतत्साधनत्वात्साध्यभूतां क्रियामपेक्षते । श्रित इत्येतदपि श्रयणक्रियोपसर्जनकर्तृवाचि स्वक्रियाविषयं साधनमपेक्षते, तयोश्च परस्परसंसर्गात् मूच्छितावयव इव वृत्तावेकार्थीभावो भवति । धर्म श्रितः = धर्मश्रितश्चैत्रः, यूपायेत्यादि सामान्यं कर्तृ अव्यवच्छेदाय भेदानाकाङ्क्षति । एवं सर्वत्रोपसर्जनानां प्रधानानां च परस्परमाकाङ्कावतामित्यादि । पांसूदकवदविभागापन्नौ इत्यादि अभेदापन्नावित्यर्थः । लोकव्यपेक्षया इति कोऽर्थः ? लोकाधीनशब्दावधारणार्थः, वृत्त्यवृत्त्योरिति कोऽर्थः ? सगा(मा)सवाक्यायाः । उपपदविभक्तिः - [अभिजानासि देवदत्त ! का( क )श्मीरेषु वत्स्यामः] 'वसं निवासे' (९९९) वस् । भविष्यन्ती . स्यामस् । 'सस्तः सि' (४।३।९२) स० → त० । अतीते 'अयदि स्मृत्यर्थे भविष्यन्ती' (५।२।९) इत्यनेन भविष्यन्ती । [ उपाध्यायश्चेदागच्छेदाशंसे युक्तोऽधीयीय ] उपाध्यायश्चेदागच्छेत् इत्यत्र 'क्षिप्रा-ऽऽशंसाऽर्थयोभविष्यन्ती-सप्तम्यौ' (५।४।३) सप्तमी । [अङ्ग ! कूज ३, अङ्ग ! कूज, इदानीं ज्ञास्यसि जाल्म! ] अत्र 'त्यादेः साकाङ्क्षस्याङ्गेन' (७।४।९१) इत्यादिना प्लुतः । [तिष्ठतु दध्यशान त्वं शाकेन] 'अशश् भोजने' (१५५८) अश् । पञ्चमी हि । 'क्रयादेः' (३।४।७९) श्नाप्र० → . ना० । 'व्यञ्जनाच्छ्नाहेरानः' (३।४।८०) आन । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलुक् । [तिष्ठतु कुमारीच्छत्रं हर देवदत्तेति ] तिष्ठतु कुमारीच्छत्रं इत्यत्र 'अनाङ्माङो दीर्घाद् वा च्छः' (१।३।२८) इत्यनेन छस्य द्विः । 'अघोषे प्रथमोऽशिट:' (११३५०) छ० → च० । शेषेषु पुनर्व्यपेक्षैव सामर्थ्यं भवति । पदयोः परस्परापेक्षैव व्यपेक्षा । उपसर्जनस्य गौणस्य राजादेविशेषणं उपसर्जनविशेषणं, उपसर्जनानि गौणानीत्यर्थः, विभक्तार्थाभिधायित्वात् पृथगर्थाभिधायित्वात् समासे तु अन्तर्भूतस्वार्थं प्रधानार्थमभिदधति प्रतिपादयति, संख्याविशेषाणामविभागेन बहूनामप्येकरूपेणेत्यर्थः । "यथौषधरसाः सर्वे, मधुन्याहितशक्तयः । अविभागेन वर्तन्ते, तां संख्यां तादृशीं विदुः" ॥१॥ मधुन्याहितशक्तयः घृतशक्तय इत्यर्थः । [द्विपुत्रः ] द्वौ पुत्रौ यस्य सः = द्विपुत्रः । [पञ्चपुत्रः] पञ्च पुत्रा यस्य = पञ्चपुत्रः । [तावकीनः, मामकीनः] तव मम षष्ठयन्तौ मण्ड्येते । तवायं = तावकः, तावकीनः । ममायं = मामकः, मामकीनः । 'वा युष्मदस्मदोऽजीनौ युष्माका-ऽस्माकं चास्यैकत्वे तु तवक-ममकम्' (६।३।६७) अप्र० → अ-ईनप्र० → ईनतवक-ममकदेशश्च । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450