Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३७६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[शौर्पिकः ] शूर्पाभ्यां शूर्वा क्रीतः इति ।
[मासजातः] मासो मासौ वा जातस्येति विग्रहे संख्याविशेषोऽस्ति, तथापि वृत्तौ परिमाणस्वाभाव्यादेव(क)त्वमेव प्रतीयते ।
क्षेपे' (३।२।३०) इत्यधिकारे 'पुत्रे वा' (३।२।३१).
[दास्याः पुत्रः] दास्याः पुत्रः । [दास्याः पुत्रः], 'षष्ठ्याः इत्यनेन अलुप्समासः । एवमग्रेऽपि ।
[देवानांप्रियः] देवानां प्रियः ।
[आमुष्यायणः] अमुष्यस्यापत्यम् = आमुष्यायणः । 'नडादिभ्य आयनण' (६।१।५३) आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अदसोऽकायनणोः' (३।२।३३) इत्यादिना अलुप् ।
[अप्सव्यः] अप्सु भवः = अप्सव्यः । 'दिगादि-देहांशाद् यः' (६।३।१२४) यप्र० । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । 'अपो य-योनि-मति-चरे' (३।२।२८) इत्यनेन अलुप् ।
[गोषुचरः ] गोषु चरतीति गोषुचरः । 'चरेष्टः' (५।१।१३८) टप्र० → अ । बाहुलकात् 'तत्पुरुषे कृति' (३।२।२०) इत्यनेन अलुप् ।
[वर्षासुजः] वर्षासु जातः = वर्षासुजः । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्लुक् । 'धु-प्रावृड्-वर्षा-शरत्-कालात्' (३।२।२७) इत्यादिना अलुप् ।
[ यथार्धं पशोर्देवदत्तस्येति ] पशुगुणस्य वा पशुप्रायस्य देवदत्तस्य यदधु यो वा संज्ञीभूतः पशुस्तस्य यदर्धमिति । तच्च समासे व्यक्तं अर्धं पशोः = अर्धपशुः । ‘समेंऽशेऽर्द्ध नवा' (३।१।५४) समासः । देवदत्तस्य ।
[ऋद्धस्य राज्ञः पुरुषः] यथाहुः विशेषणस्य राज्ञः विशेषणं ऋद्ध इति वाक्ये भवति, समासे न भवति । 'सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति ।
[स्वचयोग-स्वामिचयोगश्च] स्वचशब्देन योगः = स्वचयोगः स्वामिचयोगश्च ।
[असूर्यम्पश्या राजदाराः] सूर्यमपि न पश्यन्ति = असूर्यम्पश्याः । राज्ञो दाराः = राजदाराः । 'असूर्योग्राद् दृशः' (५।१।१२६) खश्प्र० → अ । 'श्रौति-कृवु-धिवृ-पा-घ्रा-ध्मा-स्था-म्ना-दाम्-दृश्यत्ति०' (४।२।१०८) दृश्० → "पश्य"देशः । जस् ।
[अपुनर्गेयाः श्लोकाः] न पुनर् कैं (३६)-'- शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । न पुनर्गीयन्ते = अपुनर्गेयाः । 'य एच्चातः' (५।१।२८) यप्र०-ए । जस् ।
[अश्राद्धभोजी] श्राद्धं न भुङ्क्ते = अश्राद्धभोजी । 'ग्रहादिभ्यो णिन्' (५।१५३) णिन्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।५७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[अलवणभोजी] न लवणं भुङ्क्ते = अलवणभोजी । 'ग्रहादिभ्यो णिन्' (५।१५३) णिन्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।५७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/08cd7c7b8c86c0c19a851466e05941ad941473acf5dab30d86e6db9a205d9510.jpg)
Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450