SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३७६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [शौर्पिकः ] शूर्पाभ्यां शूर्वा क्रीतः इति । [मासजातः] मासो मासौ वा जातस्येति विग्रहे संख्याविशेषोऽस्ति, तथापि वृत्तौ परिमाणस्वाभाव्यादेव(क)त्वमेव प्रतीयते । क्षेपे' (३।२।३०) इत्यधिकारे 'पुत्रे वा' (३।२।३१). [दास्याः पुत्रः] दास्याः पुत्रः । [दास्याः पुत्रः], 'षष्ठ्याः इत्यनेन अलुप्समासः । एवमग्रेऽपि । [देवानांप्रियः] देवानां प्रियः । [आमुष्यायणः] अमुष्यस्यापत्यम् = आमुष्यायणः । 'नडादिभ्य आयनण' (६।१।५३) आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अदसोऽकायनणोः' (३।२।३३) इत्यादिना अलुप् । [अप्सव्यः] अप्सु भवः = अप्सव्यः । 'दिगादि-देहांशाद् यः' (६।३।१२४) यप्र० । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । 'अपो य-योनि-मति-चरे' (३।२।२८) इत्यनेन अलुप् । [गोषुचरः ] गोषु चरतीति गोषुचरः । 'चरेष्टः' (५।१।१३८) टप्र० → अ । बाहुलकात् 'तत्पुरुषे कृति' (३।२।२०) इत्यनेन अलुप् । [वर्षासुजः] वर्षासु जातः = वर्षासुजः । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्लुक् । 'धु-प्रावृड्-वर्षा-शरत्-कालात्' (३।२।२७) इत्यादिना अलुप् । [ यथार्धं पशोर्देवदत्तस्येति ] पशुगुणस्य वा पशुप्रायस्य देवदत्तस्य यदधु यो वा संज्ञीभूतः पशुस्तस्य यदर्धमिति । तच्च समासे व्यक्तं अर्धं पशोः = अर्धपशुः । ‘समेंऽशेऽर्द्ध नवा' (३।१।५४) समासः । देवदत्तस्य । [ऋद्धस्य राज्ञः पुरुषः] यथाहुः विशेषणस्य राज्ञः विशेषणं ऋद्ध इति वाक्ये भवति, समासे न भवति । 'सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति । [स्वचयोग-स्वामिचयोगश्च] स्वचशब्देन योगः = स्वचयोगः स्वामिचयोगश्च । [असूर्यम्पश्या राजदाराः] सूर्यमपि न पश्यन्ति = असूर्यम्पश्याः । राज्ञो दाराः = राजदाराः । 'असूर्योग्राद् दृशः' (५।१।१२६) खश्प्र० → अ । 'श्रौति-कृवु-धिवृ-पा-घ्रा-ध्मा-स्था-म्ना-दाम्-दृश्यत्ति०' (४।२।१०८) दृश्० → "पश्य"देशः । जस् । [अपुनर्गेयाः श्लोकाः] न पुनर् कैं (३६)-'- शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । न पुनर्गीयन्ते = अपुनर्गेयाः । 'य एच्चातः' (५।१।२८) यप्र०-ए । जस् । [अश्राद्धभोजी] श्राद्धं न भुङ्क्ते = अश्राद्धभोजी । 'ग्रहादिभ्यो णिन्' (५।१५३) णिन्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।५७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [अलवणभोजी] न लवणं भुङ्क्ते = अलवणभोजी । 'ग्रहादिभ्यो णिन्' (५।१५३) णिन्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।५७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy