________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३७५
एकार्थीभावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः सङ्गतार्थः संसृष्टार्थो वा पदानां स्वार्थो गौणः समासार्थस्तु प्रधानमिति सङ्गतार्थ(:) संसृष्टार्थपदविधौ तु समासार्थ एव विधो(धौ) तु समासार्थ एव इति स्पोटवादिमतम् । अत्र च पदानि उपसर्जनीभूतस्वार्थानि निवृत्तस्थानानि वा प्रधानार्थोपादानात् व्यर्थानि अर्थान्तराभिधायीनि वा एकस्तावत् प्रधानोऽर्थः अपरः स्वार्थ इति व्यर्थता, अर्थान्तरं समासार्थलक्षणं तदभिधायीनि भवति । पदविधिश्च समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति । तत्र समासः-द्वितीया 'श्रितादिभिः' (३।१।६२) धर्म श्रितः = धर्मश्रितः । एषु पूर्वोत्तरपदयोर्वाक्यावस्थायां परस्परकाङ्खालक्षणा व्यपेक्षा । वृत्त्यवस्थायां तु पृथगर्थानां सतामेकार्थीभाव इति । तथाहि - धर्ममित्येतत्साधनत्वात्साध्यभूतां क्रियामपेक्षते । श्रित इत्येतदपि श्रयणक्रियोपसर्जनकर्तृवाचि स्वक्रियाविषयं साधनमपेक्षते, तयोश्च परस्परसंसर्गात् मूच्छितावयव इव वृत्तावेकार्थीभावो भवति ।
धर्म श्रितः = धर्मश्रितश्चैत्रः, यूपायेत्यादि सामान्यं कर्तृ अव्यवच्छेदाय भेदानाकाङ्क्षति । एवं सर्वत्रोपसर्जनानां प्रधानानां च परस्परमाकाङ्कावतामित्यादि । पांसूदकवदविभागापन्नौ इत्यादि अभेदापन्नावित्यर्थः । लोकव्यपेक्षया इति कोऽर्थः ? लोकाधीनशब्दावधारणार्थः, वृत्त्यवृत्त्योरिति कोऽर्थः ? सगा(मा)सवाक्यायाः ।
उपपदविभक्तिः - [अभिजानासि देवदत्त ! का( क )श्मीरेषु वत्स्यामः] 'वसं निवासे' (९९९) वस् । भविष्यन्ती . स्यामस् । 'सस्तः सि' (४।३।९२) स० → त० । अतीते 'अयदि स्मृत्यर्थे भविष्यन्ती' (५।२।९) इत्यनेन भविष्यन्ती ।
[ उपाध्यायश्चेदागच्छेदाशंसे युक्तोऽधीयीय ] उपाध्यायश्चेदागच्छेत् इत्यत्र 'क्षिप्रा-ऽऽशंसाऽर्थयोभविष्यन्ती-सप्तम्यौ' (५।४।३) सप्तमी ।
[अङ्ग ! कूज ३, अङ्ग ! कूज, इदानीं ज्ञास्यसि जाल्म! ] अत्र 'त्यादेः साकाङ्क्षस्याङ्गेन' (७।४।९१) इत्यादिना प्लुतः ।
[तिष्ठतु दध्यशान त्वं शाकेन] 'अशश् भोजने' (१५५८) अश् । पञ्चमी हि । 'क्रयादेः' (३।४।७९) श्नाप्र० → . ना० । 'व्यञ्जनाच्छ्नाहेरानः' (३।४।८०) आन । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलुक् ।
[तिष्ठतु कुमारीच्छत्रं हर देवदत्तेति ] तिष्ठतु कुमारीच्छत्रं इत्यत्र 'अनाङ्माङो दीर्घाद् वा च्छः' (१।३।२८) इत्यनेन छस्य द्विः । 'अघोषे प्रथमोऽशिट:' (११३५०) छ० → च० ।
शेषेषु पुनर्व्यपेक्षैव सामर्थ्यं भवति । पदयोः परस्परापेक्षैव व्यपेक्षा । उपसर्जनस्य गौणस्य राजादेविशेषणं उपसर्जनविशेषणं, उपसर्जनानि गौणानीत्यर्थः, विभक्तार्थाभिधायित्वात् पृथगर्थाभिधायित्वात् समासे तु अन्तर्भूतस्वार्थं प्रधानार्थमभिदधति प्रतिपादयति, संख्याविशेषाणामविभागेन बहूनामप्येकरूपेणेत्यर्थः ।
"यथौषधरसाः सर्वे, मधुन्याहितशक्तयः । अविभागेन वर्तन्ते, तां संख्यां तादृशीं विदुः" ॥१॥ मधुन्याहितशक्तयः घृतशक्तय इत्यर्थः । [द्विपुत्रः ] द्वौ पुत्रौ यस्य सः = द्विपुत्रः । [पञ्चपुत्रः] पञ्च पुत्रा यस्य = पञ्चपुत्रः ।
[तावकीनः, मामकीनः] तव मम षष्ठयन्तौ मण्ड्येते । तवायं = तावकः, तावकीनः । ममायं = मामकः, मामकीनः । 'वा युष्मदस्मदोऽजीनौ युष्माका-ऽस्माकं चास्यैकत्वे तु तवक-ममकम्' (६।३।६७) अप्र० → अ-ईनप्र० → ईनतवक-ममकदेशश्च । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org