________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
(२।४।५४) ङी । व(वा)तण्डी चासौ युवतिश्च = वातण्ड्ययुवतिः । दरदोऽपत्यं स्त्री । 'पुरु- मगध - कलिङ्ग०' (६|१|११६) अण्प्र० → अ । 'द्रेरञणोऽप्राच्य भर्गादेः' (६|१|१२३) अण्लुप् । दरच्चासौ वृन्दारिका च = दारदवृन्दारिका । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से: ' (१।४।४५) सिलुक् । अत्र वतण्डीशब्दस्य दरच्छब्दस्य च 'पुंवत् कर्मधारये' ( ३।२।५७) इति पुंवद्भावे कर्त्तव्ये अर्थत आसन्नो वातण्ड्यभावो दारदभावश्च भवति ।
३७४
प्रमाणेन - [अमुष्मै ] अदस् चतुर्थी ङे । 'आ द्वेरः' (२|१|४१) स०अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । ‘मोऽवर्णस्य' (२।१।४५) द० म० । 'सर्वादेः स्मै-स्मातौ' (१।४।७) स्मै । 'मादुवर्णोऽनु' (२।१।४७ ) अकारस्य उत्वम् ।
[ अमूभ्याम् ] अदस् तृतीया भ्याम् । 'आ द्वेरः' (२|१|४१) स० अ । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'मोऽवर्णस्य' (२।१।४५) द०म० । 'अत आः स्यादौ ० ' (१।४।१) दीर्घः । 'मादुवणोऽनु' (२।१।४७) ऊ । मात्रिक मात्रिको द्विमात्रस्य च द्विमात्रः ॥छ||
सम्बन्धिनां सम्बन्धे ॥ ७|४|१२१ ॥
[ सम्बन्धिनाम् ] सम्बन्धिन् षष्ठी आम् ।
[ सम्बन्धे ] सम्बन्ध सप्तमी ङि ।
[ श्वशुर्यः ] श्वशुरस्यापत्यं = श्वशुर्यः । श्वशुराद् य:' ( ६ । १।९१) यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । संज्ञाशब्दात्तु - [ श्वाशुरि: ] श्वशुरस्यापत्यं = श्वाशुरिः । 'अत इञ्' (६।१।३१ ) इञ्प्र० इ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
=
[ मातृष्वसा ] मातु: स्वसा मातृष्वसा । प्रथमा सि । 'ऋदुशनस्०' (१।४।८४) सि० डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऋलोप: । 'मातृ-पितुः स्वसुः' (२।३।१८) षत्वम् ।
धान्यमातुस्तु न भवति ।
[ मातृस्वसा ] मातुः स्वसा = मातृस्वसा ॥छ |
समर्थः पदविधिः ॥ ७।४।१२२ ॥
=
[समर्थः ] सङ्गतोऽर्थो यस्य सः [ पदविधि: ] पदस्य सम्बन्धी विधि:
पदविधिः । प्रथमा सि । 'सो रुः' (२।१।७२) स०र० ।
तच्च सामर्थ्यं व्यपेक्षा एकार्थीभावश्च । अत्र व्यपेक्षायां सम्बद्धार्थः सम्प्रेक्षितार्थो वा पदविधिः साधुर्भवति । सम्बद्धोऽर्थो यस्य यत्र झटित्येव पदानामन्वयः प्रतीयते, राज्ञः पुरुषः इत्यादौ सम्बद्धार्थः पदविधिः सम्प्रेक्षितोऽर्थो यत्र यथा
Jain Education International
समर्थः ।
=
राजोत्पले हरिभुजामिह के शवस्य यस्योरसीन्दुरदनं च जटाकलापे ।
शङ्खाम्बरोऽपि पवनादरिनाथसूनुः, कान्ता स वोऽगतनया विपुलं ददातु ॥१॥
इत्यादौ क्लिष्टकाव्ये कष्टकल्पनयार्थः प्रतीयते । यस्योरसि हरिभुजां - वायुभुजां सर्पाणां राजा शेष:, यस्य च जटाकलापे इन्दुर्यस्य च शवस्य के मृतकस्य के मस्तके उत्पले निर्मांसे अदनं भक्षणं यस्य च अगतनयाऽद्रिसुताखाम्बरोऽपि विपुलं शं सुखं वो ददातु पवनात् सर्पस्तस्यारिर्मयूरः तस्य नाथः कार्तिकेयः स सूनुर्यस्येत्यर्थः ॥१॥
कान्ता
For Personal & Private Use Only
www.jainelibrary.org