________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३७३
स्पः ॥ ७।४।११९ ॥ [स्पर्द्ध ] स्पर्द्ध सप्तमी ङि । द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोः एकत्र अनेकत्र च उपनिपातः स्पर्द्धः । [वृक्षान्] वृक्ष द्वितीया शस् । 'शसोऽता सश्च नः पुंसि' (१।४।४९) शसोऽता सह अकारो दीर्घः-स्० → न् । [मुनीन् ] मुनि द्वितीया शस् । 'शसोऽता०' (१।४।४९) शसोऽता सह अकारो दीर्घः-सू० → न्० ।
[महान्ति ] महत् प्रथमा जस् । नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः ।
[यशांसि ] यशस् प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः ।
उभयमिह प्राप्नोति
[वनानि] वन प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।
- [मधूनि] मधु प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । अत्र परत्वात् शिरेव ।
अयं तावदेकस्य जसः द्विकार्ययोगे स्पर्द्ध उक्तः । [अग्नीवरुणौ] अग्निश्च वरुणश्च = अग्नीवरुणौ 'ई: षोम-वरुणेऽग्ने:' (३।२।४२) ई ।
[आग्नावैष्णवं हविः] अग्निश्च विष्णुश्च = अग्नाविष्णुः(ण) । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) इकारस्य आ । अग्नाविष्णु(णू) देवतेऽस्य तत् = आग्नावैष्णवं हविः । 'देवता' (६।२।१०१) अण्प्र० → अ । 'देवतानामात्वादौ' (७४।२८) उभयपदवृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । सि-अम् । हविस् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
इहोभयं प्राप्नोति -
[आग्निवारुणीमनड्वाहीमालभेत ] अग्नीवरुणौ देवतेऽस्याः सा = आग्निवारुणी, ताम् । 'देवता' (६।२।१०१) अण्प्र० → अ । 'देवतानामात्वादौ' (७।४।२८) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । अनडुह् 'गौरादिभ्यो मुख्यान्ङी' (२।४।१९) ङी । उकारस्य वादेशश्च । अम् । परत्वात् वृद्धिरेव भवति । अत्र ह्यग्नेरीत्वं वरुणशब्दस्य च वृद्धिरिति नैको द्विकार्ययुक्तः । असम्भवस्त्वस्ति वृद्धौ सत्यां 'इद्धिमत्यविष्णौ' (३।२।४३) इति अग्नेरीत्वापवाद इर्भवति ॥छ।।
आसन्नः ॥७।४।१२० ॥ [आसन्नः] आसन्न प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [दण्डानम् ] दण्डस्याग्रं = दण्डाग्रम् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । [क्षुपाग्रम् ] क्षुपाया अग्रं = क्षुपाग्रम् । समानानां०' (१।२।१) दीर्घः ।
अर्थेन - [वातण्ड्ययुवतिः, दारदवृन्दारिका] वतण्ड्यस्यापत्यं वृद्धं स्त्री आङ्गिरसी । 'वतण्डात्' (६।१।४५) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'स्त्रियां लुप्' (६।१।४६) यञ्लुप् । 'जातेरयान्त-नित्यस्त्री-शूद्रात्'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org