________________
३३८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पौन:पुनिकः] पुनःपुनर्भवः = पौन:पुनिकः । 'वर्षा-कालेभ्यः' (६।३८०) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'प्रायोऽव्ययस्य' (७।४।६५) अलुक् ॥छ।
भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ॥ ७४७३ ॥ [भृशाऽऽभीक्ष्ण्याऽविच्छेदे] भृशं च आभीक्ष्ण्यं च अविच्छेदश्च = भृशाऽऽभीक्ष्ण्याऽविच्छेदम्, तस्मिन् । [द्विः] द्वौ वारावस्य = द्विः । 'द्वि-त्रि-चतुरः सुच्' (७।२।११०) सुचप्र० । [प्राक् ] प्राक् प्रथमा सि । [तमबादेः] तमप् आदिर्यस्य सः = तमबादिः, तस्मात् । क्रियायाः साकल्यमवयवक्रियाणां कायं भृशार्थः, पौनःपुन्यमाभीक्ष्ण्यम्, सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः ।
[लुनीहि लुनीहीत्येवायं लुनाति ] 'लूग्श् छेदने' (१५१९) लू । पञ्चमी हि । 'त्र्यादेः' (३।४७९) श्नाप्र० →→ ना । 'एषामी व्यञ्जनेऽदः' (४।२।९७) ई । 'प्वादेर्हस्वः' (४।२।१०५) हुस्वः । अनेन द्विवचनम् ।
[अधीष्वाधीष्वेत्येवायमधीते ] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । पञ्चमी स्व । 'नाम्यन्तस्था-कवर्गात्।' (२।३।१५) षत्वम् । 'समानानां०' (११२१) दीर्घः । अनेन द्विवचनम् ।
[भोज भोजं व्रजति ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । अभीक्ष्णं भोजनं पूर्व = भोजम् । 'ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । अनेन द्विवचनम् ।
[भुक्त्वा भुक्त्वा व्रजति ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । अभीक्ष्णं भोजनं पूर्वं = भुक्त्वा । 'ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१२८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० → क० । अनेन द्विर्वचनम् ।
[पचति पचति ] 'डुपचीष् पाके' (८९२) पच् । वर्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन द्विवचनम् ।
[अधीते अधीते ] 'इंङ् अध्ययने' (११०४) इ, अधिपूर्व० । वर्त० ते । 'समानानां०' (१।२।१) दीर्घः । अनेन द्विवचनम् ।
[ब्रह्मचर्यं चरति चरति ] ब्रह्मन् 'चर भक्षणे च' (४१०) चर् । ब्रह्मणश्चरणं = ब्रह्मचर्यम् । 'चरेराङस्त्वगुरौ' (५।१।३१) यप्र० । अम् । चरति अनेन द्विवचनम् ।
भृशादयः क्रियाधर्मा इति क्रियापदमेवात्र सम्बध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विवचनं भवति । यथा
[पुनः पुनः पचति] पुनः 'क्रियाविशेषणात्' (२।२।४१) अम् । पचति । एवमग्रेऽपि ।
यदा तु सतोऽपि क्रियाविशेषणत्वस्य क्रियाविवक्षता न विवक्षते तदा 'नवा गुणः सदृशे रित्' (७।४।८६) इति सादृश्ये द्विर्वचनं भवति । यथा
[मन्दं मन्दं नुदति ] मन्दं मन्दं 'णुदत् प्रेरणे' (१३७०) णुद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नुद् । वर्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र० ।
ॐ
मध्यमवृत्तौ-बृहद्वृत्तौ-तुदति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org