________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३३९
_
[स्तोकं स्तोकं अस्तमयति] स्तोक 'नवा गुणः सदृशे रित्' (७४।८६) द्विवचनम् । सि-अम् । अस्तम् 'इंण्क् गतौ' (१०७५) इ । अयनम् = अयः । अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । अस्तमयोऽस्तमयः । अस्तमय इवाचरति = अस्तमयति । 'कर्तुः क्विप्, गल्भ-क्लीब-होडात्तु ङित्' (३।४।२५) क्विपप्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । वर्त० तिव् । 'कर्तर्यन०' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् ।
भृशाभीक्ष्ण्ययोर्यङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा तु भृशार्थे यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तये द्विवचनम्
[पापच्यते पापच्यत इति] 'डुपचीं पाके (८९२) पच् । भृशं पुनः पुनर्वा = पचति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० → य । 'सन्-यङश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेलुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आगुणावन्यादेः' (४।१।४८) आ । वर्त० ते । 'कर्तर्यन०' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२१११३) अलोपः । अनेन द्विर्वचनम् ।
यदा तु भृशार्थयङन्तस्य अभीक्ष्ण्यस्य च प्रतिपादनाय पञ्चमी विधीयते तदा तस्या द्विवचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्य क्त्वाणमोरिवेति द्विवचनमपि भवति ।
[पचतिपचतितमाम ] अतिशयेन पचति = पचति २ तमाम् । अनेन द्विवचनम् । 'प्रकृष्ट तमप्' (७३।५) तमप्प्र० । 'किं-त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याऽऽम्' (७।३।८) आम् ।
[पचतिपचतितराम्] द्वयोर्मध्ये प्रकृष्टं पचति = पचति २ तराम् । 'द्वयोविभज्ये च तरप्' (७।३।६) तरप्र० → तर । 'किं-त्याद्येऽव्यया०' (७।३।८) आम् ॥छ।।
नानावधारणे ॥ ७।४।७४ ॥ [नानावधारणे ] नानाशब्दे नानाभूते माषादावर्थे वर्तते तस्यावधारणमेकत्वादि नानावधारणम्, तस्मिन् । नानाभूतानां भेदेनेयत्तापरिच्छेदो नानावधारणम् ।
[अस्मात् कार्षापणात् इह भवद्भ्यां माष माषं देहि] इदम्-भवत् मण्ड्यते । इमौ भवन्तौ, इह भव । 'त्रप् च' (७।२।९२) त्रप्र० →त्र । 'क्व-कुत्रा-ऽत्रेह' (७२।९३) इह । भवत् निपात्यते, ताभ्याम् । माष अम् । अनेन द्विवचनम् । प्रत्येकं माषमात्रं देहि नाधिक्यमित्यर्थः ॥छ।।
'डुदांग्क् दाने' (११३८) दा । दातुमिष्टा(:) । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'मि-मी-मादामित् स्वरस्य' (४।१।२०) इत् । 'दित्स्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक(?)।
आधिक्या-ऽऽनुपूर्ये ॥ ७४।७५ ॥ [आधिक्याऽऽनुपूधै ] अधिकस्य भावः = आधिक्यम् । पूर्वस्यानतिक्रमेण = अनुपूर्वः । अनुपूर्वस्य भावः = आनुपूर्व्यम् । 'पतिराजान्तगुणाङ्गराजादिभ्य:०' (७१६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । आधिक्यं च आनुपूर्णं च = आधिक्याऽऽनुपूर्व्यम्, तस्मिन् ।
आधिक्यं प्रकर्षः । आनुपूय॑ क्रमानुल्लङ्घनम् । [मह्यं रोचते मह्यं रोचते] अस्मद् । चतुर्थी छे । 'तुभ्यं मह्यं ङया' (२२११४) "मह्यं"देशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org