________________
३४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां ।
[मह्यं रोचतेतराम् मह्यं रोचतेतराम्] अस्मद् । चतुर्थी उ । 'तुभ्यं मह्यं ड्या' (२२११४) "मह्यं"देशः । अतिशयेन रोचते = रोचतेतराम् । 'द्वयोविभज्ये च तरप्' (७३।६) तरपप्र० → तर । 'किं-त्याद्येऽव्ययादसत्त्वे०' (७३।८) आम् । अनेन द्विवचनम् । [अग्रे अग्रे सूक्ष्माः ] अग्रे अग्रे इति विरामविवक्षया(णा)त् 'न सन्धिः' (१।३।५२) इति सन्धिनिषेधः ॥छ।।
डतर-डतमौ समानां स्त्रीभावप्रश्ने ॥ ७।४७६ ॥ [डतरडतमौ] डतरश्च डतमश्च = डतरडतमौ । [समानाम् ] सम षष्ठी आम् । [स्त्रीभावप्रश्ने] स्त्री चासौ भावश्च = स्त्रीभावः, स्त्रीभावस्य प्रश्नः = स्त्रीभावप्रश्नः, तस्मिन् ।
[उभाविमावाढ्यौ, कतरा कतरा अनयोराढ्यता ?] किम् । इयमनयोर्मध्ये प्रकृष्टा का = कतरा । 'यत्-तत्किमन्यात्' (७।३।५३) डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) इम्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अनेन द्विवचनम् ।
[उभाविमावाढ्यौ, कतमा कतमा अनयोराढ्यता ?] बहूनां मध्ये का = कतमा । 'बहूनां प्रश्ने डतमश्च वा' (७३।५४) डतमप्र० → अतम । 'डित्यन्त्यस्वरादेः' (२।१।११४) इम्लुक् । अनेन द्विः । आढ्यता इति स्त्रीलिङ्गभावः प्रत्ययः । किं साधन-गजाश्वादिसम्बन्धकृता उतान्यसम्बन्धकृता आहोस्विदुभयसम्बन्धकृतेत्यर्थः ।
[सर्व इमे आढ्याः , कतरा कतरा एषामाढ्यता ?] किम् । इयमनयोर्मध्ये प्रकृष्टा का = कतरा । 'यत्-तत्किमन्यात्' (७।३।५३) डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) इम्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अनेन द्विर्वचनम् ।
[सर्व इमे आढ्या, कतमा कतमा एषामाढ्यता ?] बहूनां मध्ये का = कतमा । बहूनां प्रश्ने डतमश्च वा' (७।३।५४) डतमप्र० → अतम । 'डित्यन्त्यस्वरादेः' (२।१।११४) इम्लुक् । अनेन द्विः । आढ्यता ।
[सर्व इमे आढ्याः , यतरा यतरा एषां विभूतिः, ततरा ततरा कथ्यताम्] इयमनयोर्मध्ये प्रकृष्टा या = यतरा । इयमनयोर्मध्ये प्रकृष्टा सा = ततरा । 'यत्-तत्-किमन्यात्' (७।३।५३) डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[सर्व इमे आढ्याः , यतमा यतमा एषां सम्पत्, ततमा ततमा कथ्यताम्] बहूनां मध्ये प्रकृष्टा या = यतमा । बहूनां मध्ये प्रकृष्टा सा = ततमा । 'बहूनां प्रश्ने डतमश्च वा' (७।३।५४) डतमप्र० → अतम । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[उभाविमौ लक्ष्मीवन्तौ, कतरानयोर्लक्ष्मीः ?] किम् । इयमनयोर्मध्ये प्रकृष्टा का = कतरा । 'यत्-तत्-किमन्यात्' (७।३।५३) डतरप्र० → अतर । 'डित्यन्त्यस्वरादेः' (२।१११४) इम्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[उभाविमौ लक्ष्मीवन्तौ, कतमानयोर्लक्ष्मीः ?] किम् । बहूनां मध्ये का = कतमा । 'बहूनां प्रश्ने डतमश्च वा' (७।३।५४) डतमप्र० → अतम । 'डित्यन्त्यस्वरादेः' (२।१२११४) इम्लुक् । लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः, इयं स्त्री भवति, न भाव इति ॥छ।।
पूर्व-प्रथमावन्यतोऽतिशये ॥ ७।४७७ ॥ [पूर्वप्रथमौ] पूर्वश्च प्रथमश्च = पूर्वप्रथमौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org