________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
३४१
[अन्यतः] अन्यस्मात् = अन्यतः । [अतिशये] अतिशय सप्तमी ङि।
[पूर्वं पूर्वं पुष्यन्ति] पूर्व 'क्रियाविशेषणात्' (२।२।४१) अम् । अनेन द्विः । आम्रादयः जम्बीरादेः सकाशात् पूर्वं पूर्वं 'पुषंच् पुष्टौ' (११७५) पुष् । वर्त्त० अन्ति । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । अन्येभ्यः पूर्वतरं पुष्यन्ति इत्यर्थः ।
[प्रथमं प्रथमं पच्यन्ते] प्रथम 'क्रियाविशेषणात्' (२।२।४१) अम् । 'डुपचींष् पाके (८९२) पच् । वर्त० अन्ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'लुगस्यादेत्यपदे' (२१२११४) अलुक् । प्रथम(मतरं) पच्यन्त इत्यर्थः ॥छ।
प्रोपोत्-सम् पादपूरणे ॥ ७।४।७८ ॥ [प्रोपोत्सम् ] प्रश्च उपश्च उच्च सम् च = प्रोपोत्सम् । [पादपूरणे ] पादस्य पूरणं = पादपूरणम्, तस्मिन् । प्रप्रशान्तकषायाग्नेरुपोपप्लववर्जितम् । उदुज्ज्वलं तपो यस्य, संसंश्रयत तं जिनम् ॥१॥
'शमू उपशमे' (१२३०) शम्, प्रपूर्व० । प्रशाम्यति स्म । 'गत्यर्था०' (५।१११) क्तप्र० → त । 'अहन्-पञ्चमस्य०' (४।१।१०७) दीर्घः । कषाय एव अग्निः = कषायाग्निरित्यादि ।
"श्रिग् सेवायाम्' (८८३) श्रि । पञ्चमी त । 'कर्तर्यन०' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ॥छ।।
___सामीप्येऽधोऽध्युपरि ॥ ७।४।७९ ॥ [सामीप्ये] सम्-अप् । सङ्गता आपो यत्र । 'ऋक्-पू:-पथ्यपोऽत्' (७।३७६) अत्समासान्तः → अ । 'व्यन्तरनवर्णोपसर्गादप ईप्' (३।२।१०९) अप्० → ईप० । समीपस्य भावः = सामीप्यम् । 'पतिराजान्तगुणाङ्ग' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सप्तमी ङि।
[अधोऽध्युपरि ] अधस् च अधिश्च उपरिश्च = अधोऽध्युपरि । प्रथमा सि । देशकृता कालकृता वा प्रत्यासत्तिः = सामीप्यम् । [अधोऽधो ग्रामम् ] अधस् प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । अनेन द्विवचनम् । ग्रामम् । [अध्यधि ग्रामम् ] अधि प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । अनेन द्विवचनम् । ग्रामम् । [ उपर्युपरि ग्रामम् ] उपरि प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । अनेन द्विवचनम् । ग्रामम् ।
वीप्सायाम् ॥ ७४८० ॥ [वीप्सायाम् ] वीप्सा सप्तमी ङि । 'आपो ङितां०' (१।४।१७) ङि० → याम् । पृथक्संख्यायुक्तानां बहूनां सजातीयानामर्थानां साकल्येन प्रत्येकं क्रियया गुणेन द्रव्येण जात्या वा युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । वीप्सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विवचनम् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org