SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ वृक्षं वृक्षं सिञ्चति ] वृक्ष द्वितीया अम् । अनेन द्वित्वम् । 'षिचींत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै० ' (२।३।९८) सिच् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१) श० अ० । 'मुचादि० ' ( ४|४|१९) नोऽन्तः । [ग्रामो ग्रामो रमणीयः ] 'रमिं क्रीडायाम्' (९८९) रम् । रम्यते = रमणीयः । अनीयप्र० । ३४२ [ द्विपदिकां ददाति ] द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । 'संख्याऽऽदेः पादादिभ्यो दान - दण्डे चाऽकल् अक० - पादस्य अकारलुक् । 'य-स्वरे पादः पदणिक्य - घुटि' (२।१।१०२) पाद्० आ । 'अस्याऽयत्०' (२|४|१११) अ० इ० । अम् । लुक् च' (७|२|१५२) अकल्प्र० → पद्० । 'आत्' (२|४|१८) आप्प्र० [ एकशो ददाति] एकैकं ददाति एकशो ददाति । 'संख्यैकार्थाद् वीप्सायां शस्' (७/२/१५१) शस्प्र० । [ एकैकशो ददाति ] एक वीप्सायां द्विः । एकैकं ददाति = एकैकशो ददाति । 'बह्वल्पार्थात् कारकादिष्टा ऽनिष्टे प्शस्' (७/२/१५०) प्शस्प्र० → शस् । समासेनापि वीप्सा [प्रत्यर्थम् ] अर्थमर्थं प्रति = प्रत्यर्थम् । [ गेहानुप्रवेशमास्ते ] गेहं गेहमनुप्रविश्य - गेहं गेहमनुप्रवेशम् । 'विश- पत-पद-स्कन्दो वीप्सा -ऽऽभीक्ष्ण्ये' (५।४।८१) णम्प्र० अम् । प्रथमा सि । 'अव्ययस्य' ( ३।२७) सिलुप् । गेहंगेहमनुप्रवेशमास्ते = गेहानुप्रवेशम् । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् । आस्ते । क्वचित् तु वीप्स्यमानमपि समासेनाभिधीयते [ सप्तपर्णः ] पर्वणि पर्वणि सप्त पर्णान्यस्य सप्तपर्णः । [ अष्टापदः] पङ्क्तौ पङ्क्तौ अष्टौ पदान्यस्य = अष्टापदः । 'नाम्नि' ( ३|२|७५ ) इत्यनेन दीर्घः । 'समानानां०' ( १ २ १) दीर्घः ॥छ । - = = Jain Education International = प्लुप् चादावेकस्य स्यादेः ॥ ७।४।८१ ॥ [ प्लुप् ] प्लुप् प्रथमा सि । [च] च प्रथमा सि । [ आदौ ] आदि सप्तमी ङि । [ एकस्य ] एक षष्ठी ङस् । [ स्यादेः ] स्यादि षष्ठी ङस् । पित्करणं पुंवद्भावार्थम् । [ एकैकः ] एक प्रथमा सि । अनेन द्विः - सिलुप् च । [ एकैका ] एक 'आत्' (२।४।१८) आप्प्र० आ । प्रथमा सि । अनेन द्विः- सिलुप् च । 'क्यङ्-मानिपित्तद्धिते' (३।२।५०) पुंवत् । ऐदौत्सन्ध्यक्षरैः (१२/१२ ) ऐ । [ एकैकस्याः ] एका षष्ठी ङस् । 'आपो ङितां यै-यास् - यास् - याम्' (१।४।१७) ङस् ० → यास्० । ‘सर्वादेर्डस्पूर्वाः' (१।४।१८) डस्पूर्व० यास् । डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अनेन द्विः - स्यादिलुप् च । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवत् । ' ऐदौत्सन्ध्यक्षरैः ' (१।२।१२ ) ऐ । For Personal & Private Use Only www.jainelibrary.org
SR No.004232
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages450
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy