________________
सप्तमाध्यायस्य चतुर्थः पादः ॥
[ एकएका ] एका प्रथमा सि । अनेन द्विः- सिलुप् च ।
[ एकएकस्याः ] एकस्याः षष्ठी ङस् । अनेन एकस्या द्विः स्यादिलुप् च । अत्र विरामस्य विवक्षितत्वात् पुंवद्भावे सति सन्धिकार्यं न भवति ॥छ ।
द्वन्द्वं वा ॥ ७।४।८२ ॥
[द्वन्द्वम् ] द्वन्द्वं प्रथमा सि । 'दीर्घङ्याब् ० ' (१।४।४५) सिलुक् ।
[वा ] वा प्रथमा सि ।
[ द्वन्द्वं तिष्ठतः, द्वौ द्वौ तिष्ठतः ] द्वि । द्वौ द्वौ तिष्ठतः = द्वन्द्वम् । प्रथमा औ । अनेन द्विर्वचनं स्यादेः " औ" रूपस्य लुप्-इकारस्य अम्भावः - अग्रेतन इकारस्य अत्वं स्यादेः " औ" रूपस्य अम्देशाश्च निपात्यते ।
[ नरकपटलान्यधोऽधो द्वन्द्वं हीनानि, द्वाभ्यां द्वाभ्यां हीनानि ] द्वि तृतीयाद्वि० भ्याम् । वीप्सायाम् ' ( ७|४|८०) द्विः । द्वाभ्यां द्वाभ्यां हीनानि = द्वन्द्वम् । अनेन द्वन्द्वं निपात्यते । भ्याम् रूपस्य लुप्-इकारस्य अम्-उत्तरत्र इकारस्य अत्वंस्यादेः भ्याम् रूपस्य अम् निपात्यते ।
एवमग्रेऽपि ज्ञेयम् ।
[ द्वन्द्वं कृतम्, द्वाभ्यां द्वाभ्यां कृतम् ] द्वाभ्यां द्वाभ्यां कृतं तृतीया ॥छ ।
=
=
३४३
रहस्य-मर्यादोक्ति-व्युत्क्रान्ति यज्ञपात्रप्रयोगे ॥ ७४८३ ॥
[ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे ] 'मृत् प्राणत्यागे' (१३३३) मृ । म्रियते = मर: । 'अच्' (५|१|४९) अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० अर् । मरे साधवः = मर्याः । 'तत्र साधौ' (७/१/१५) यप्र० । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । आङ्पूर्व० 'डुदांग्क् दाने' (११३८) दा । तैरादीयत इति मर्यादा । 'आतो डोऽहवावा-मः' (५।१।७६) डप्र० अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । 'आत्' (२|४|१८) आप्प्र० → आ । मर्यादाया उक्तिः मर्यादोक्तिः । रहस्यं च मर्यादोक्तिश्च व्युत्क्रान्तिश्च यज्ञपात्रप्रयोगश्च व्युत्क्रान्तियज्ञपात्रप्रयोगम्, तस्मिन् ।
रहस्यमर्यादोक्ति
Jain Education International
द्वन्द्वम् । शेषं पूर्ववत् । 'कर्त्तरि' (२२८६)
वीप्सायामिति निवृत्तम् ।
[ द्वन्द्वं मन्त्रयन्ते ] द्वौ द्वौ = द्वन्द्वम् । अत्र द्वन्द्वशब्दो रहस्यार्थः, न तु द्विशब्दार्थः संख्या काचिदस्ति । यदुक्तमनेकार्थे'द्वन्दः साहवे रहस्ये मिथुने युग्मे' । द्वि द्वितीया औ । अनेन द्विः । शेषं पूर्ववत् । द्वौ भूत्वा रहस्यं मन्त्रयन्त इत्यर्थः ।
=
=
आचतुरम् । 'पर्यपा -ऽऽङ्-बहिरच् पञ्चम्या' अ । अम् । द्वौ द्वौ
=
द्वन्द्वम् । औ । शेषं
[ आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते ] आ चतुर्भ्यः (३|१।३२) इत्यनेन समासः । 'शरदादेः' (७३।९२) अत्समासान्तः पूर्ववत् । मिथुनमिवाचरन्ति मिथुनायन्ते । 'क्यङ्' ( ३।४।२६ ) क्यङ्प्र० य । 'दीर्घश्च्वि यङ् - यक्-क्येषु च' (४।३।१०८) दीर्घः । वर्त्त० अन्ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोप: । पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः । इयं मर्यादोक्तिः ।
=
=
[ द्वन्द्वं व्युत्क्रान्ताः ] द्वौ द्वौ भूत्वा = द्वन्द्वम् । द्वि औ । शेषं पूर्ववत् । व्युत्क्रान्तिर्भेदः । द्वौ राशी येषां ते द्विराशयः, तेषां भावः = द्वैराश्यः । ‘पतिराजान्तगुणाङ्ग०' (७|१|६०) ट्यण्प्र० य । 'वृद्धिः स्वरे० ' ( ७४१) वृद्धिः ऐ । ‘अवर्णेवर्णस्य' (७|४|६८) इवर्णस्य लुक् । तेन = द्वैराश्येन भिन्ना इत्यर्थः ।
For Personal & Private Use Only
www.jainelibrary.org