Book Title: Siddh Hemhandranushasanam Part 03
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
8
]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
परवल्लिङ्गतापवादोऽस्य पाठः । वृत्रोऽन्धकार: रिपुश्च, मन्त्र: ऋगादिलक्षणः, अमित्रा वैरी । अरिनामत्वादेव सिद्धे संयक्तरान्तत्वात क्लीबत्वबाधनार्थं वचनम, कटप्रः समह 'पुण्ढ़ो दैत्यविशेषेक्षुभेदयोरतिमुक्तके' प्रार: आरकूटः, द्रवनामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः। अथ लान्ताः २६ कल्लोलस्तरङ्गः, अर्थप्राधान्यादुल्लोलोऽपि, उल्लः सूरणः, खल्लः कृतौ हस्तपादावमर्दनाख्यरुजि च, तल्लस्तडागः ।। १२ ।। कण्डोलपोटगलपुद्गलकालवाला
वेला गलो जगलहिङ गुलगोलफालाः । स्यादेवलो बहुलतण्डुलपत्रपाल
वातूलतालजडुला भृमलो निचोलः ॥ १३ ॥ . कण्डोल: पिटकाख्यं भाजनम्, पोटगल: काश: नडश्च, पुद्गलः परमाणुः देहश्च । कालो मृत्युः, वालोऽश्वकरिवालधिः, तूटो तु बाहलकात स्त्रियाम, आवेलचवितताम्बलम, गलः सर्जरसः, अर्थप्राधान्यात् कलकल इत्यपि, कण्ठे तु तन्नामत्वादेव पुस्त्वम् । द्रवनामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः, जगल: पिष्टमद्यम्, हिङ गुलं दारदं, गोल: सर्वतोवृत्तः बालक्रोडनकाष्टे स्त्रीपत्राशनादौ क्लीबः, यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचकः स प्राश्रयलिङ्गः। फाल: कुशी, देवल: देवायतनम्, बहुलः कृष्णपक्षः, तण्डुलः धान्यसारः विडङ गं च । पत्रपालः दोर्घाछरी । वातूलः वातसमूहः वातासहे चोन्मत्ते चाश्रयलिङ गः । ताल: गीतकालक्रियामान करतलादौ। जडुलो देहे कृष्णं लक्ष्म । भृमलो रोगविशेषः, निचोल: निचुलकम्, उपसर्गस्यातन्त्रत्वात् चोल: स्त्रीणां कूसकश्चोल: ।। १३ ।।
कामलकुद्दालावयवस्वाः ख वरोरवयावाः शिवदावौ।
माधवपणवादीनवहावध्र वकोटीशांशाः स्पशवंशौ ॥ १४ ॥
कामलो 'मरौ रोगेऽवतसे ना कामलस्त्रिषु कामुके' कुद्दालः खनित्रविशेषः । अथ वान्ताः १२-अवयव: अङ्गम् । स्व आत्मा स्वभाव: ज्ञातिश्च, अर्थे तु पुक्लीबः प्रात्मोये तु गुणवृत्तित्वादाश्रयलिङ्गः। स्रवः स ग्भेदः, रौरवो नरकभेदः, याव: अलक्तकः, शिवो वेदादिः, दावो अरण्यम्, वह्निविशेषेत पूस्त्वं सिद्धमेव, अर्थप्राधान्यादव इत्यपि 'कानने वनवह्नौ च स्याद्दावो दववन्नरि', माधवो मधुमिश्र पासवः, स्वाथिके के माधवकः, माघे मासभेदे मघौ विष्णौ च सिद्धमेव पुंस्त्वम्, स्त्रियामपीति कश्चित्, पणवः पटहः, आदीनवो दोषः परिक्लिष्ट: दुरन्तश्च, हावः भावसूचकः, ध्र व आतौ शिवे शङ्को इत्यादि। अथ शान्ता: ७ कोटीशो लोष्टभेदनः, अर्थप्राधान्यात् कोटिशोऽपि, अंश: भागः, स्पशः संपरायः प्रणिधिश्च, 'वंशो वर्ग कुले वेणौ पृष्ठस्यावयवेऽपि च ॥ १४ ॥
कुशोड्डीशपुरोडाश-वृषकुल्मासनिष्कुहाः । अहनिवू हकलहाः पक्षराशिवराश्यषिः ॥ १५ ॥
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570