Book Title: Siddh Hemhandranushasanam Part 03
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 458
________________ 24 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने राजवजितराजार्थराक्षसादेः पराऽपि च । प्रादावुपक्रमोपज्ञे कन्थोशीनरनामनि ॥ ११ ॥ राजार्था ईश्वरादयस्तेभ्यो राजजितेभ्यो राक्षसादयः पिशाचादयश्च प्राणिनोऽमनुष्यास्तेभ्यः परा या सभा तदन्तस्तत्पुरुषः क्लीब, शालार्थ प्रारम्भः, इनसभं, ईश्वरसभं, नृपसभं, पिशाचसभं, रक्षः सभं, तद्गृहं तत्संघो वेत्यर्थः । नृपतिसभामगमदिति बाहलकात। राजवजितेति किम् ? राजसभा, समहार्थस्य भवत्येव पूर्वेण राजसभम । राजार्थराक्षसादेरिति किम् ? नरसभा. प्रादौ उपक्रमस्योपज्ञानस्य च प्राथम्ये विवक्षिते उपक्रमोपज्ञेत्येतदन्तस्तत्पुरुषः क्लीबः । श्रेयांसस्योपक्रमः श्रेयांसोपक्रम दानं, श्रेयांसेन श्रेयसे प्रथमं प्रवर्तितमित्यर्थः । __आदिदेवस्योपज्ञा प्रादिदेवोपज्ञं धर्मव्यवस्था । आदिदेवेन प्रथमं ज्ञात्वा प्रवर्तितेत्यर्थः, उपक्रम्यते इत्युपक्रमः, उपज्ञायते इत्युपज्ञा, कर्मरिण घनङावित्यनुयोगेन सामानाधिकरण्यम् । उशीनरा नाम देशस्तत्र चेत् कस्यचित् संज्ञायां वर्तमानः कन्थान्तस्तत्पुरुषः क्लीबः । सौशमीनां कन्था सौशमिकन्थं, पावरकन्थं, नाम उशीन । उशीनरेति किम् ? दक्षिणकन्था नाम ग्रामसंज्ञा किन्तु उशीनरेषु न ।। ११ ।। सेनाशालासुराच्छाया-निशा वोर्णा शशात्परा । भाद्गरणो गृहतः स्थूरणा, संख्यादन्ता शतादिका ॥ १२ ॥ सेनाद्यन्तस्तत्पुरुषो वा क्लीबः, कपिसेनं, कपिसेना, हस्तिशालं, हस्तिशाला, यवसुरं, यवसुरा, छत्त्रच्छायं छत्त्रच्छाया, चौरनिशं चौरनिशा। अनञ् कर्मधारय इति किम् ? असेना, परमसेना। शशात्परो य ऊरशब्दस्तदन्तस्तत्पुरुष. क्लोबः । शशोर्ण, अन्यत्र तु न। छागो, भाल्परो यो गरगस्तदन्तस्तत्पुरुषः क्लीबः, भगरणम् अन्यत्र न । गोगणः गृहान् परा या स्पूणा तदन्तस्तत्पुरुष क्लीबः, गृहस्थूणं गृहधारणं, अन्यत्र तु न । शालास्थूणा। अकारान्ताः शतप्रभतिसंख्या: क्लीबाः, अब्ज, खर्व, निखर्व, महासरोजमित्यादि। शतसहस्रायुतप्रयुतानां पुनपुसकत्वं, लक्षस्य तु पुस्त्रीत्वम् ।। १२ ।। मौक्तिक माक्षिकं सौप्तिकं क्लोतकं, नारणकं नाटकं खेटक तोटकम् । आह्निकं रूपकं जापकं जालकं, वेरण कं गैरक कारकं वास्तुकम् ॥ १३ ॥ अथ कान्ताः ४७ मौक्तिक मुक्ता, माक्षिकं यस्मात्ताम्रादि भवति स धातुविशेषः, सोप्तिकं रात्रीघाटी क्लातकं मधुकं, नाणकं रूपकादि, नाटक दशरूपकभेदः, खेटक फलक, तोटकं दशरूपकभेदः वत्तं च, पाह्निकं नित्यक्रिया भोजनं च, रूपकं काव्यालंकारविशेषः, उपलक्षणत्वाद्यमकं दीपकं च, जापकं दर्वी सुगन्धिद्रव्यविशेषश्च, अर्थप्राधान्यात् कालपकमिति, दर्त्यां च पुलिङ गोऽप्ययमित्येके, जालकं कुड्मलं, वेणुकं गजयोत्रं, गैरिक धातुविशेषः, कारकं कादि, गुणवृत्तिस्त्वाश्रयलिङगः, वास्तुकं शाकविशेषः ।। १३ ।।

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570