________________
24 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
राजवजितराजार्थराक्षसादेः पराऽपि च ।
प्रादावुपक्रमोपज्ञे कन्थोशीनरनामनि ॥ ११ ॥ राजार्था ईश्वरादयस्तेभ्यो राजजितेभ्यो राक्षसादयः पिशाचादयश्च प्राणिनोऽमनुष्यास्तेभ्यः परा या सभा तदन्तस्तत्पुरुषः क्लीब, शालार्थ प्रारम्भः, इनसभं, ईश्वरसभं, नृपसभं, पिशाचसभं, रक्षः सभं, तद्गृहं तत्संघो वेत्यर्थः । नृपतिसभामगमदिति बाहलकात। राजवजितेति किम् ? राजसभा, समहार्थस्य भवत्येव पूर्वेण राजसभम । राजार्थराक्षसादेरिति किम् ? नरसभा. प्रादौ उपक्रमस्योपज्ञानस्य च प्राथम्ये विवक्षिते उपक्रमोपज्ञेत्येतदन्तस्तत्पुरुषः क्लीबः । श्रेयांसस्योपक्रमः श्रेयांसोपक्रम दानं, श्रेयांसेन श्रेयसे प्रथमं प्रवर्तितमित्यर्थः ।
__आदिदेवस्योपज्ञा प्रादिदेवोपज्ञं धर्मव्यवस्था । आदिदेवेन प्रथमं ज्ञात्वा प्रवर्तितेत्यर्थः, उपक्रम्यते इत्युपक्रमः, उपज्ञायते इत्युपज्ञा, कर्मरिण घनङावित्यनुयोगेन सामानाधिकरण्यम् । उशीनरा नाम देशस्तत्र चेत् कस्यचित् संज्ञायां वर्तमानः कन्थान्तस्तत्पुरुषः क्लीबः । सौशमीनां कन्था सौशमिकन्थं, पावरकन्थं, नाम उशीन । उशीनरेति किम् ? दक्षिणकन्था नाम ग्रामसंज्ञा किन्तु उशीनरेषु न ।। ११ ।।
सेनाशालासुराच्छाया-निशा वोर्णा शशात्परा ।
भाद्गरणो गृहतः स्थूरणा, संख्यादन्ता शतादिका ॥ १२ ॥ सेनाद्यन्तस्तत्पुरुषो वा क्लीबः, कपिसेनं, कपिसेना, हस्तिशालं, हस्तिशाला, यवसुरं, यवसुरा, छत्त्रच्छायं छत्त्रच्छाया, चौरनिशं चौरनिशा। अनञ् कर्मधारय इति किम् ? असेना, परमसेना। शशात्परो य ऊरशब्दस्तदन्तस्तत्पुरुष. क्लोबः । शशोर्ण, अन्यत्र तु न। छागो, भाल्परो यो गरगस्तदन्तस्तत्पुरुषः क्लीबः, भगरणम् अन्यत्र न । गोगणः गृहान् परा या स्पूणा तदन्तस्तत्पुरुष क्लीबः, गृहस्थूणं गृहधारणं, अन्यत्र तु न । शालास्थूणा। अकारान्ताः शतप्रभतिसंख्या: क्लीबाः, अब्ज, खर्व, निखर्व, महासरोजमित्यादि। शतसहस्रायुतप्रयुतानां पुनपुसकत्वं, लक्षस्य तु पुस्त्रीत्वम् ।। १२ ।। मौक्तिक माक्षिकं सौप्तिकं क्लोतकं, नारणकं नाटकं खेटक तोटकम् । आह्निकं रूपकं जापकं जालकं, वेरण कं गैरक कारकं वास्तुकम् ॥ १३ ॥
अथ कान्ताः ४७ मौक्तिक मुक्ता, माक्षिकं यस्मात्ताम्रादि भवति स धातुविशेषः, सोप्तिकं रात्रीघाटी क्लातकं मधुकं, नाणकं रूपकादि, नाटक दशरूपकभेदः, खेटक फलक, तोटकं दशरूपकभेदः वत्तं च, पाह्निकं नित्यक्रिया भोजनं च, रूपकं काव्यालंकारविशेषः, उपलक्षणत्वाद्यमकं दीपकं च, जापकं दर्वी सुगन्धिद्रव्यविशेषश्च, अर्थप्राधान्यात् कालपकमिति, दर्त्यां च पुलिङ गोऽप्ययमित्येके, जालकं कुड्मलं, वेणुकं गजयोत्रं, गैरिक धातुविशेषः, कारकं कादि, गुणवृत्तिस्त्वाश्रयलिङगः, वास्तुकं शाकविशेषः ।। १३ ।।