________________
लिङ्गानुशासनम्.
[ 25
रुचकं धान्याकनिः शलाकालीकालिकशल्कोपसूर्यकाल्कम् । कवकिबुकतोक तिन्तिडीकैडूकं छत्राकत्रिकोल्मुकानि ॥ १४ ॥
रुचकं चन्दनपेषरणी शिला, धान्याकं अल्लुका, अर्थप्राधान्यात् धानेयकं, धान्यकं, धानीयकं प्रपि । निःशलाकं रहः । अर्थप्राधान्याज्जनान्तिकमपि, अलीकं ललाटं अलिकं च, शल्कं खण्डं, उपसूर्यकं परिवेषः अल्कश्व रोगः । कवकं भूकन्दविशेषः । किबुकं जलोत्पन्न द्रव्यविशेषः, तोकमपत्यं, तितिडीकं चक्र, एडूकं अन्तर्न्यस्तास्थि कुड्यं छत्राकं भूकन्दविशेषः, त्रिकं पृष्ठाधो भागः, उल्मुकं अलातम् ।। १४ ।।
माक कदम्बके बुकं चिबुकं कुतुकमनूकचित्रके ।
कुहुकं मधुपर्कशीर्षके शालूकं कुलकं प्रकीरणकम् ।। १५ ।। मार्दीकं मृद्वीकासवः, अर्थप्राधान्यात् माध्वीकमपि हारहूरं च सुरानामत्वेन स्त्रीत्वें प्राप्ते वचनम् । कदम्बकं समूहः, काभावे कदम्बं, बुकं तृणविशेष, चिबुकमधरस्याधः । कुतकं कुतूहलं, अनूकमन्वयः, चित्रकं पुण्ढ, कुहुकमाश्चर्यं मधुपर्कं दधिमध्वादिः देवादीनामर्षः, शीर्षकं शिरस्त्राणं, शालूकमुत्पलादिकन्दः, कुलकं वृत्तसमूहः, प्रकीर्णकं
चामरम् ।। १५ ।।
हल्लीसक पुष्पके खलिङ्गं स्फिगमङ्गं प्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्ट व्युष्टं करोटकृपीट - चीनपिष्टम् ।। १६ ।।
3
हल्ली सकं स्त्रीणां नृत्तभेदः, पुष्पकं नेत्ररोगः, खं संवेदनं, लिङगं हेतुचिह्न च अर्थप्राधान्याच्चिह्नमपि स्फिगं, स्फिग् अङ्गं प्रतीकः समीपं च अङ्गान्तत्वाद् वराङ्गं चक्राङ्गं च । प्रगं प्रभातं, चोचमुपभुक्तफलाव शेषश्छत्त्यादि । बीजं हेतुः आधानं च पिञ्ज बलं, रिष्टं क्षेमं फाण्टमनायासं, ललाटं भालं, इष्टं क्रतुकर्म, व्युष्टं प्रभातं, करोटं मस्तकं कांस्यभाजनं च कृपीठमुदरं, चीनपृष्टं सिन्दूरम् ।। १६ ।।
शृङ्गाटमोर पिटान्यथ पृष्ठगोष्ठभाण्डाण्डतुण्डशररणग्रहरणे रणानि ।
पिङ गारण तीक्ष्णलवर द्रविणं पुराणं,
त्राणं शरणं हिरणकारण कार्मरणानि ।। १७ ।।
शृङ्गाटं जलोद्भवकन्दः चतुष्पथं च । मोरटमिक्षुमूलं, पिटं छर्दिः, टान्तानां तु पु ंस्त्वे प्राप्तेऽस्य पाठः । ग्रंथ ठान्तौ पृष्ठ प्राण्यङगं गोष्ठ, गोकुलं गोष्ठप्रत्ययान्तमपि, गोगोष्ठ, अश्वगोष्ठं । 'पशुभ्यः स्थाने गोष्ठः' इति गोष्ठः । भाण्डं भाजनं गेहं च, अण्डं वृषणः, तुण्डं मुण्डं प्रर्थप्राधान्यात् द्विजालयमपि, शरणं गृहं त्राणं च ग्रहणमादरः, इरिणमूषरम् | अर्थप्राधान्या दूरमपि । पिङ्गाणं काचभाजनं गेहं च । तोक्ष्णं विषादिः ।