Book Title: Siddh Hemhandranushasanam Part 03
Author(s): Hemchandracharya, Udaysuri, Vajrasenvijay, Ratnasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text
________________
[ पाद. ४. सू. १०२-१०३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३९१ प्रश्नार्चाविचारे च संधेयसंध्यक्षरस्यादिदुत्परः ॥ ७. ४. १०२ ।।
संधेयः संधियोग्यः यः कचित्स्वरे परे विकारमापद्यते, प्रश्नेऽ यां विचारे प्रत्यभिवादे च वर्तमानस्य वाक्यस्य संबन्धिनः स्वरेष्वन्त्यस्वरस्य संधेयसंध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति । स च प्रत्यासत्त्या एकारैकारयोरिकारपर ओकारौकारयोरुकारपरो भवति । प्रश्ने, अगमः ३ पूर्वान् ३ ग्रामा ३ नग्निभूता ३ इ, पटा ३ उ। अदा ३ स्तस्मा ३ इ, अपचा ३ इ, पटा ३ उ, अहौषी ३ रग्ना ३ उ। 'प्रश्ने च प्रतिपदम् ' (७-४-९८) इति प्लुतः । अर्चा पूजा तस्यां 'दूरादामन्यस्य' (७-४-९९) इति प्लुतः । शोभनः खल्वसि अग्निभूता ३ इ। पटा ३ उ । विचारे, वस्तव्यं कि निर्ग्रन्थस्य सागारिका ३ इ उतानागारिके । प्रत्यभिवादे, आयुष्मानेधि अग्निभूता ३ इ, पटा ३ उ, आयुष्मन्तौ भूयास्तां देवदत्तजिनदत्ता ३ उ। प्रश्ना_विचारे चेति किम् ? आगच्छ भो अग्निभूते ३ । संधेयग्रहणं किम् ? कच्चि ३ त् कुशल ३ म् भवत्योः ३ कन्ये ३ । अगमः ३ पूर्वा ३ न ग्रामा३ नहो ३ भद्रकाऽसि गौः ३। आयुष्मानेधि भौ ३: । संध्यक्षरस्येति किम् ? भद्रिकासि कुमारि ३ । वाक्यस्य स्वरेष्वत्यस्वर इति विज्ञानादिह न भवति । अगमः ३ पूर्वी ३ ग्रामौ ३ देवदत्त ३ ।१०२॥
न्या० स० प्रश्ना०–संधियोग्य इति यस्य 'ईदूदेत्' १-२-३४ इत्येवमादिर्भिनिषेधो नास्ति । .. तयोर्यो स्वरे संहितायाम् ॥ ७. ४. १०३ ॥
तयोः प्लुताकारात्परयोरिदुतोः स्थाने स्वरे परे संहितायां विषये यथासंख्यं यकारवकारावादेशी भवतः । अविरामः संहिता, अगम ३ अग्निभूता ३ यत्रागच्छ, अगम ३ अग्निभूता ३ यिहागच्छ, अगमः ३ पटा ३ वत्रागच्छ, अगमः ३ पटा ३ वुदकमानय, स्वे दीर्घत्वस्यास्वे स्वरे इस्वत्वस्य बाधनार्थ वचनम् । स्वर इति किम् ? अग्ना ३ इ, पटा ३ उ, संहितायामिति किम् ? अग्ना ३ इ इन्द्रम्, पटा ३ उ उदकम्, अग्ना ३ इ अत्र, पटा उ अत्र । केचिदैदौतोश्चतुर्मात्रं प्लुतमिच्छन्ति । ऐ ४ तिकायन, औ ४ पगव ।१०३।