Book Title: Shravak Pragnapti Author(s): Keshavlal Premchandra Publisher: Nirnaysagar Press View full book textPage 7
________________ भगवता श्रीहरिभद्रसूरिणास्योपरि टीका व्यरच्येतति ग्रन्थान्तलेखपालोचनया स्पष्टं प्रतीयते । इदं च प्रस्तुतसूरिविरचितस्य स्वोपज्ञटीकासंवलितस्य शास्त्रवार्तासमुच्चयस्यामुखपर्यालोचनया तथा जिनभद्रसूरेरन्तेवासितां. स्वयमेवायमुररीचकारेत्यादिकारणैश्चावसीयते । प्रान्ते विरहाङ्काभावान्नायं विरचितो भगवता हरिभद्रसूरिणेति नाशङ्कनीयम् । यतो योगबिन्दुप्रमुखा विरहाकविनाकृता अप्यनेके तद्रतिचा ग्रन्थाः समवलोक्यन्ते । चतुश्चत्वारिंशदधिकचतुर्दशशत(१४४४) ग्रन्थानां निर्मातेति भुवनप्रतीतोऽयं सूरिः पञ्चत्रिंशदधिकपञ्चश ते (५३५) वैक्रमेऽन्दे देवलोकं स्वप्रत्यासत्त्या मण्डयामास । उमास्वात्यपेक्षयास्याधिकाः सन्ति प्रचलिता ग्रन्था इति तच्चरितं तत एवावगन्तव्यम् ।। श्रीमानुमास्वातिरपि पञ्चशतं ग्रन्थान्व्यरचयदित्यैतिह्यमात्रम् । बृहद्गच्छीयेन श्रीहरिभद्रसूरिणापि वैक्रमीयपञ्चाशीत्यधिकैकादशशत(११८५)प्रमिताब्दविरचितायां प्रशमरतिटीकायामेवमेवोकम्। तत्त्वार्थाधिगमः प्रशमरतिर्जम्बूद्वीपसमासश्चेति ग्रन्थत्रयं श्रीमदुमास्वातिवाचकप्रणीतमुपलभ्यते । पूजाप्रकरणं नामैको ग्रन्थ एकोनविंशतिश्लोकात्मक एतद्विरचितो भवेदिति कथनमात्रम् । एतद्विरचिताप्यन्या श्रावकप्रज्ञप्तिभवेदिव्येतद्धर्मसङ्ग्रहादिग्रन्थैरपि निश्चीयते । एतद्विरचितजम्बूद्वीपसमासान्तलेखादवगम्यते । तद्यथा-कृतिरियं सिताम्बराचार्यस्य महकोवरुमास्वातिवाचकस्येति ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 228