Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 6
________________ स्वातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः। ततस्तेषां संविभागः कार्य इत्युक्तम् । तथा च तपाठः। “अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमुपागतेषु भत्त्याभ्युत्थानासनदानपादप्रमार्जननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदानेन संविभागः कार्यः" इति । श्रीमुनिचन्द्रसूरिविरचितधर्मबिन्दुटीकायां द्वादशतमव्रतप्रस्तावे श्रीवादिदेवसूरिरप्येवमेवाह । अनेन च संस्कृतेऽपि श्रावकप्रज्ञप्ति मातिविस्तृतो. ग्रन्थः श्रीमदुमास्वातिविरचितोऽभूदित्यवगम्यते । अयं पुनः प्रस्तुतो ग्रन्थो मागध्यां मूलात्मको विद्यते । ततो निर्णीयते नायं भगवदुमास्वातिप्रणीतो भवेदिति । १श्रीमदुमास्वातिविरचिता श्रावकप्रज्ञप्तिरस्तीत्येतद्विचारामृतसंग्रहादिग्रन्थैरपि निश्चीयते । २ पञ्चाशकटीकायां श्रीमता नवाङ्गीवृत्तिकृताभयदेवसूरिणेदमभ्यधायि । तद्यथा-वाचकतिलकेन श्रीमतोमास्वातिवाचकेन श्रा- . वकप्रज्ञप्तौ सम्यक्त्वादिः श्रावकधर्मो विस्तरेणाभिहित इति । ततश्चेदमेवात्र जिज्ञास्यं यदेनमुमास्वाती रचयामास वा न वेति। ३ ग्रन्थस्यास्य मूलगाथान्ते प्रायः सर्वत्र 'उमास्वातिविरचिता सावयपन्नत्ती संमत्ता' इति लिखितं दरीदृश्यते । एतदपि चास्योमास्वातिवाचकः प्रणेतेति मनने मानम् ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 228