Book Title: Shraman Bhagvana Mahavira Part 3
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

View full book text
Previous | Next

Page 551
________________ Vada ] Canadharavāda 513 Yata éva pratyakşam Saumya ! sukham năsti duhkhamévėdami Tatpratikāravibhaktom tatah punyaphalamiti duḥkhamiti 1145711 ] Trans.--457 That which is directly perceived as happiness is not happiness O Saumya / but it is only misery. It has been distinguished (from duhkha ) only as its resistanee, The fruition of virtuous deeds is, therefore, ( nothing but ) dshkha. ( 2005 ) __टीका- सौम्य ! प्रभास ! यत एव दुःखेनुभूयमाने कस्थाप्यविपर्यस्तमतेः मुखं प्रत्यक्षं नास्ति, सुखानुभव: स्वसंविदितो न विद्यते, अत एवास्माभिरुच्यते--" दुक्खमेवेदं” इति, यत् किमप्यत्र संसारचक्रे स्त्रक्-- चन्दना-ऽङ्गनासंभोगादिसमुत्थमपि विद्यते तत् सर्व दुःखमेवेत्ययः, केवलं तस्याङ्गनासंभोगादिविषयौत्सुक्यजनितारतिरूपस्य दुःखस्य प्रतीकारोऽङ्गनासंभोगादिकस्तत्मतीकारस्तेन तत्पतीकारेण दुःखमपि सद् विमक्तं मुर्भदेन व्यवस्थापितम् -सत्पतीकाररूपं कामिनीसंमोगादिकं पामाकण्डूयनादिवत् सुखमध्यवसितम्, शूलारोपण--शूल--शिरोबाधादिव्याधि बन्ध-वधादिजनितं तु दुःखमिति। रमणीसंभोग--चक्रवर्तिपदलाभादिसुखं स्वसंविदितं “दुःखम्" इति वदतां प्रत्यक्षविरोध इति चेत् । तदयुक्तम्, मोहमूढप्रत्यक्षत्वात् तस्य, तल्लाभौत्सुक्यजनितारतिरूपदुःखप्रतीकाररूपत्वाद् दुःखेऽपि तत्र सुखाध्यवसायः, पापाकण्डूयना-ऽपथ्याहारपरिभोगादिवत् यथा चोक्तम् नम्नः प्रेत इवाविष्ट कणन्तीमुपगृह्य ताम् । गाढायासितसर्वाङ्गः स सुखी रमते किल ॥१॥ औत्सुक्यमात्रमवसादयति प्रतिष्ठा लिन्नाति लब्धपरिपालनमुत्तिरेव । नातिश्रमापगमनाय यथा श्रमाय राज्यं . स्वहस्तगतदण्डमिवातपत्रम् ॥ २॥ भुक्ताः श्रियः सकलकामदुधास्ततः किं संप्रीणिताः प्रणयिनः स्वधन:स्वतः किम ? दत्तं पदं शिरसि विद्विषतां ततः किं कल्पं स्थित तनुभृतां तनुभिस्ततः किम् ॥ ३ ॥ इत्थं न किञ्चिदपि साधन-साध्यजातं स्वप्नेन्द्रजालसदृशं परमार्थशून्यम् । अत्यन्तनितिकरं यदपेतबाधं तद् ब्रह्म वाञ्छत जनाः। यदि चेतनास्ति ॥४॥ 65 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586