________________
Vada ] Canadharavāda
513 Yata éva pratyakşam Saumya ! sukham năsti duhkhamévėdami Tatpratikāravibhaktom tatah punyaphalamiti duḥkhamiti 1145711 ]
Trans.--457 That which is directly perceived as happiness is not happiness O Saumya / but it is only misery. It has been distinguished (from duhkha ) only as its resistanee, The fruition of virtuous deeds is, therefore, ( nothing but ) dshkha. ( 2005 )
__टीका- सौम्य ! प्रभास ! यत एव दुःखेनुभूयमाने कस्थाप्यविपर्यस्तमतेः मुखं प्रत्यक्षं नास्ति, सुखानुभव: स्वसंविदितो न विद्यते, अत एवास्माभिरुच्यते--" दुक्खमेवेदं” इति, यत् किमप्यत्र संसारचक्रे स्त्रक्-- चन्दना-ऽङ्गनासंभोगादिसमुत्थमपि विद्यते तत् सर्व दुःखमेवेत्ययः, केवलं तस्याङ्गनासंभोगादिविषयौत्सुक्यजनितारतिरूपस्य दुःखस्य प्रतीकारोऽङ्गनासंभोगादिकस्तत्मतीकारस्तेन तत्पतीकारेण दुःखमपि सद् विमक्तं मुर्भदेन व्यवस्थापितम् -सत्पतीकाररूपं कामिनीसंमोगादिकं पामाकण्डूयनादिवत् सुखमध्यवसितम्, शूलारोपण--शूल--शिरोबाधादिव्याधि बन्ध-वधादिजनितं तु दुःखमिति। रमणीसंभोग--चक्रवर्तिपदलाभादिसुखं स्वसंविदितं “दुःखम्" इति वदतां प्रत्यक्षविरोध इति चेत् । तदयुक्तम्, मोहमूढप्रत्यक्षत्वात् तस्य, तल्लाभौत्सुक्यजनितारतिरूपदुःखप्रतीकाररूपत्वाद् दुःखेऽपि तत्र सुखाध्यवसायः, पापाकण्डूयना-ऽपथ्याहारपरिभोगादिवत् यथा चोक्तम्
नम्नः प्रेत इवाविष्ट कणन्तीमुपगृह्य ताम् ।
गाढायासितसर्वाङ्गः स सुखी रमते किल ॥१॥ औत्सुक्यमात्रमवसादयति प्रतिष्ठा लिन्नाति लब्धपरिपालनमुत्तिरेव । नातिश्रमापगमनाय यथा श्रमाय राज्यं . स्वहस्तगतदण्डमिवातपत्रम् ॥ २॥ भुक्ताः श्रियः सकलकामदुधास्ततः किं संप्रीणिताः प्रणयिनः स्वधन:स्वतः किम ? दत्तं पदं शिरसि विद्विषतां ततः किं कल्पं स्थित तनुभृतां तनुभिस्ततः किम् ॥ ३ ॥ इत्थं न किञ्चिदपि साधन-साध्यजातं स्वप्नेन्द्रजालसदृशं परमार्थशून्यम् । अत्यन्तनितिकरं यदपेतबाधं तद् ब्रह्म वाञ्छत जनाः। यदि चेतनास्ति ॥४॥ 65
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org