Book Title: Shraddh Pratikraman Sutram Author(s): Ratnashekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ श्राद्धप्रतिक्रमणवृत्तिः श्राद्धविधिवृत्तिः आचारप्रदीपश्चेति, वि. १५१७ पौष० व०६ दिने स्वर्गः, तदानी लुकाख्यात् लेखकात् सं० १५०८ 19 वर्षे जिनप्रतिमोत्थापनपरं लुकामतं प्रवृत्तं, तन्मते वेषधरस्तु १५३३ वर्षे जातः, तत्र प्रथमो वेषधारी ऋ. भाणकाख्योऽभूदिति" तथा हीरसौभाग्येसूरेस्ततोऽजायत रत्नशेखरः, श्रीपुण्डरीको वृषभध्वजादिव । बाम्बीति नाम्ना द्विजपुङ्गवेन, न्यगादि यो बालसरखतीति ॥ १२८॥ टीका-ततस्तस्मात्-श्रीमुनिसुन्दरसूरीन्द्रात् रत्नशेखर इति नामा सूरिरजायत, क इव ?-यथा भरतचक्रवर्तिप्रथमसुतः श्रिया-गणभृ-18 | लक्ष्म्या कलितः पुण्डरीकनामा श्रीवृषभध्वजात्-वृषभलाञ्छनात् । 'ध्वजश्चिन्हे पताकायां, शिश्ने पूर्वदिशो गृहे। खदाङ्गे शौण्डिके माने | | इत्यनेकार्थतिलके, आदिदेवाज्जज्ञे । यः श्री रत्नशेखरसूरिः स्तम्भतीर्थे बाम्बीनाम्ना द्विजपुङ्गवेन ब्राह्मणश्रेष्ठेन अयं बालसरस्वती इति 18|न्यगादि-कथितः तदादि बालसरस्वतीति विरुदं दधार ॥ इति रत्नशेखरसूरिः॥ | तेन ज्ञायते निश्चितमेतत् यदुत श्रीमद्भिर्गुर्जरावनिर्विशेषेण स्वविहारादिना पाविता । श्रीमतां च साधुरत्नमुनीन्द्राणां वैराग्यमकरन्दमुक्षु ४ वचनेषु मुग्धो ग्रन्थकृन्मनोभ्रमरो, जगृहुश्च दीक्षा सशिक्षा श्रीमद्भिर्गुणरत्नसूरिभिः शिक्षितेभ्यो भुवनसुन्दरमरिभ्यः, पट्टे तु श्रीमतां मुनि | सुन्दरसूरिवराणां, पर्युपासिषत च श्रीमद्भिः सत्यहंसादिभिः पण्डितप्रवरैः श्रीमत्पादाः, स्पष्टमेतच्छ्रीमद्वाक्यैः, एतदीयप्रस्तावनाप्रशस्तिवचनो-8 ४ल्लेख विचारकाणां न नूनमेतत् । Jain Educa emational For Private & Personel Use Only www.jainelibrary.org INPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 474