Book Title: Shraddh Pratikraman Sutram Author(s): Ratnashekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ Jain Education श्रीमद्वीर जिनेन्द्रो विजयतेतराम् । श्राद्धप्रतिक्रमणीया प्रस्तावना. विदितमेतद्विपश्चितां यदुत श्रीमद्वीरजिनशासनं सप्रतिक्रमणमाद्यार्हच्छासनमिव ये च प्राक् ऋजुप्राज्ञतयांऽस्थितकल्पा आसन् जाताश्च | पश्चात् तीर्थसंक्रान्त्या स्थितकल्पास्तेऽप्युररीचक्रुरेव सप्रतिक्रमणं शासनं, का हि वार्त्ता तर्हि वक्रजडानां प्रथमत एव स्थितकल्पानां मुनीनां प्रतिक्रमणक्रियाया नियतत्वे ?, एवं च सति वीरजिनयतीनां चेत् शासनान्तर्वर्त्तितासमीहाऽवश्यन्तया प्रतिक्रमणक्रिया करणीया, यथा च | वाचंयमानां व्रतातीचाराणां शोधनमसंयमादिविषयकेण प्रतिक्रमणाध्ययनेन तथैव देशविरतानामपि स्थूलहिंसाविरत्या दिगोचरातिचारमयेनैव प्रतिक्रमणाध्ययनेन तत्, यथाप्रतिज्ञमेवातिचारसंभवात् नोभयेषामतिचारसाम्यं न च समेन सूत्रेण प्रतिक्रान्ति:, ततो युक्तमेव श्रमणोपासकानां | प्रतिक्रमणेन भिन्नेन प्रतिक्रमणं, साम्ये जिनस्तुतौ गुरुवन्दने कायोत्सर्गे प्रत्याख्याने च नास्ति तथाविधो विशेषो यादृशोऽणुव्रतेपु, तेनान्यसूत्राणां | सर्वथा पार्थक्याभावेऽप्यस्य विशेषभेदवत्त्वेन पार्थक्यं सर्वथा प्रतिक्रमणसूत्रस्य, यथा च आद्यावश्यके सर्वशब्दवर्जो यावन्नियमाङ्कितो द्विविधत्रिविधपाठपूर्ण आलापकः स्थूलहिंसादिनिप्रहमयश्चान्यावश्यके श्रावकाणां योग्यतयाऽऽलापकस्तद्वदेव तत्कर्तृप्रणीतमिदमपि सूत्रं, सिद्धान्तितं चात एव पूज्यपादैः श्रीमद्भिरभयदेवसूरिभिराद्यपञ्चाशकेऽस्यात्वं, ये नैवं मन्त्रते तैर्दर्शनीयमन्यद् श्राद्धप्रतिक्रमणसूत्रं प्रनं, नो चेदेवं सूत्रा| चार्यवचनोत्तीर्णवादिभिः सहालं चसूर्या, स्पष्टीकृतमत्रापि २०२ तमपृष्ठे अस्य श्रीमद्विजयसिंहाचार्यकृतया चूर्ष्या श्रीमज्जिनदेवसूरिहन्धेन ational For Private & Personal Use Only BEST BEBE ww.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 474