Book Title: Shraddh Pratikraman Sutram Author(s): Ratnashekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ श्राद्धप्र- भाष्येण परिकरितत्वमावेद्य श्रीमदकलङ्कश्रीमद्देवेन्द्रादिविहितवृत्तिसमलङ्कृततां चाऽऽविर्भाव्य पूज्यपादैर्ग्रन्थकृद्भिरपि तथात्वं,सति चास्याऽऽर्ष- प्रस्ताव. तिसूत्रे त्वे प्रत्यहं श्रमणोपासकक्रियायां द्विसन्ध्यमुपयोगित्वे चाऽऽवश्यकं तदीयार्थपरिज्ञानं,सूत्रस्याज्ञातार्थस्य खादरहिततया सिद्धान्तितत्वात् निःस्वाद स्याध्यवसायाशोधकत्वात् अध्यवसायाशुद्धावतीचारपङ्कस्यानपगमात् अशुद्धस्य सुकृतस्य यथेरितफलाप्रापकत्वात् प्रागूबद्धस्याप्यतिचारदोषकर्मण) आलोचनप्रायश्चित्तादिनिरस्यत्वात् श्रद्धावता मुमुक्षुणा श्राद्धेनावश्यं ज्ञेयं सार्थ प्रतिक्रमणाध्ययनं स्वकीयं, ज्ञात्वा चैतत् पूर्वसूरिभिरनेकैश्चूर्णिभाष्यादिरलकृतं सूत्रमेतत् , तथापि पतत्प्रकर्षतया कालस्य, दुर्लभतया गीतार्थसाधुसमागमस्य अक्षणिकतया गार्हस्थ्यस्य स्थूललक्ष्यतयाऽऽरम्भपरिग्रहमनाना रसपोषकस्वभावतया काव्यस्य हिताहितप्रवृत्तिनिवृत्त्युत्पादकतया रसवद्वोधस्य विस्तृततमकथानिकानामेव यथावद्वत्तनिबोधन चतुरत्वात् श्राद्धानुष्ठान विधौ संक्षिप्ततया विवृतेऽपि सूत्रेऽस्मिन् श्रीमद्देवेन्द्रमूरिभिर्विशेषेण विवृतं सूत्रमेतत् पूज्यैः श्रीमद्भिः सूरिभी रत्नशेखरैः।। ४ ग्रन्थप्रणेतारश्च कदा कतमत् भूमण्डलं मण्डयामासुः पावयामासुश्च स्वजनुषं केषां श्रीगुरूणां वदनकमलविनिर्गतैर्वचनरसैदीक्षादानपटुभिः करसरोजैश्चेति जिज्ञासायां श्रीमतां सत्तासमयः एतद्न्थप्रशस्तित एव चतुर्दशशताब्द्या अत्यन्तान्तिमः पञ्चदशशताब्द्याश्चादिमो भागोऽवसीयते, तथा च तत्पाठः " एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडङ्कविश्वमिते (१४९६)। श्रीरत्नशेखरगणी वृत्तिमिमामकृत कृतितुष्टयै ॥ ११" श्रीमतामितिवृत्तं च पूज्यैः श्रीमद्भिर्धर्मसागरोपाध्यायैरेवं स्वकृतायां तपोगच्छपट्टावल्यां लिखितं ॥१॥ "चउवण्ण रयणसेहरओत्ति-श्रीमुनिसुन्दरसूरिपट्टे पट्टे चतुष्पञ्चाशत्तमः श्रीरत्नशेखरसूरिः विक्रम सं० १४५७ कचित् १४५२ जन्म, ११४६३ व्रतं, १४८३ पण्डितपदं, १४९३ वाचकपदं, १५०२ सूरिपदं, स्तम्भे तीर्थे बांबीनाम्ना भट्टेन बालसरस्वती नाम दत्तं, तत्कृताः For Private & Personal Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 474