Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
" मलमासे श्राद्धं कार्यं नवेति विचारो विस्तरेण वदयते श्राद्धचन्द्रिकाप्रकाशे" ( ति० पृ० ३५२ ) " विवेचयिष्यते चैत्स्पष्टं श्राद्धचन्द्रिका प्रकाशे ” ( ति० पृ० २६० ) इति लेखदर्शनेन 'वक्ष्यते ' 'विवेचयिष्यते ' इति भवि - यत्कालनिर्देशात् तियर्कानन्तरमेव श्राद्धचन्द्रिका विरचितेति व्यक्तमेवाधारयितुं शक्यते । अस्ति चान्या कृतिरस्य ग्रन्थकृतो वृत्तरत्नाकरटीका वृत्तरत्नाकरादर्श इति । तत्राप्यवसाने स्वाभिजनोल्लेख पूर्वकं ग्रन्थकृतापूर्णाधकमिते वर्षे सत्कार्तिके मासि विशुद्धपक्षे |. तार्तीयपूर्णे दिवसे सुपुण्ये हयादर्श इत्थं घटितः समाप्तः ॥
इति लिखनात् एकस्मिन्नेवान्दे १७४० वैक्रमे तिथ्यकों वृत्तरत्नाकरादर्शश्चेति द्वयं समापितमिति प्रतीयते । श्रतश्च कारणेमहाशयेन किं वा प्रमाणमास्थाय श्राद्धचन्द्रिकाविरचनकाल उपरिनिर्दिष्टः १६८० त्री० लिखित इत्यवगन्तुं न पार्यते ।
एवं च तिथ्यर्कादनन्तरसमय एव १७४१।१७४२ वा वैक्रमाब्दे श्राद्धचन्द्रिकाया विरचनमिति निश्च पूचम् |
अत्र च ग्रन्थकृता तत्र तत्र विवादास्पदेषु स्थलेषु माताह-मातुः पू. पितामह -- मातुः वृ० प्रपितामहादिपदैः श्रीनीलकण्ठ- श्रीरामकृष्णभट्ट -- श्रीनारायणभट्टादीनामेवोक्ति: प्रमाणत्व नावलम्बिता ।
तदेवं पत्नानां दुर्लभप्रायाणामीदृशानां निबन्धरत्नानां प्रकाशने बद्धपरिकरेण श्रीजयकृष्णदासगुप्तमहाशयेनास्याः श्राद्धचन्द्रिकायाः संशोधने सपश्रयमभिहितोऽहं प्रावर्तिष्येतच्छोधनकर्मणि । आदर्शपुस्तकं चास्या नेपालाभिजन काशीनिवासिन आर्यालोपनामक पण्डितश्रीगजराज केशरिणः सकाशात् स्वर्गीय गुरुचरणैः म० म० पर्वतीय नित्यानन्दशास्त्रिभिः सगृहोतमेकमेव नातिशुद्ध प्राचीनतरं सम्पूर्णमुपलब्धम् । कतिपय मुद्रणानन्तरं च काशिकधर्माधिकारिपण्डितश्रीलक्ष्मीधरपन्तसकाशादपर नातिशुद्धं सम्पूर्णम् । विशदविषयानुक्रमणिकया अत्र प्रमाणत्वेनोद्धृतानां ग्रन्थानां सूच्यादिनिवेशनेन च सपरिश्रमं सम्यक् परिशोधितेऽप्यत्र ग्रन्थे मानुष्यकनान्तरीयकमतिदोषेण शीशकाक्षरयोजकानवधानतया च समभूतानि स्खलि तानि मर्षयित्वा प्रकटयिष्यन्ति निजां गुणैकपक्षपातितां प्रेक्षावतां धुरीणाः । प्रसीदतां चानेन व्यापारेण जनहृदयतत्त्वसाक्षी भगवान् काशिकापुरा धीशः श्रीविश्वेश इत्याशास्ते
A
१९९१ वैक्रमेऽब्दे शुद्धवैशाख
कृष्णपक्षे बुधे पचम्याम् ।
विदुषां विधेयः श्रीविष्णुप्रसाद भण्डारी ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 192