SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ " मलमासे श्राद्धं कार्यं नवेति विचारो विस्तरेण वदयते श्राद्धचन्द्रिकाप्रकाशे" ( ति० पृ० ३५२ ) " विवेचयिष्यते चैत्स्पष्टं श्राद्धचन्द्रिका प्रकाशे ” ( ति० पृ० २६० ) इति लेखदर्शनेन 'वक्ष्यते ' 'विवेचयिष्यते ' इति भवि - यत्कालनिर्देशात् तियर्कानन्तरमेव श्राद्धचन्द्रिका विरचितेति व्यक्तमेवाधारयितुं शक्यते । अस्ति चान्या कृतिरस्य ग्रन्थकृतो वृत्तरत्नाकरटीका वृत्तरत्नाकरादर्श इति । तत्राप्यवसाने स्वाभिजनोल्लेख पूर्वकं ग्रन्थकृतापूर्णाधकमिते वर्षे सत्कार्तिके मासि विशुद्धपक्षे |. तार्तीयपूर्णे दिवसे सुपुण्ये हयादर्श इत्थं घटितः समाप्तः ॥ इति लिखनात् एकस्मिन्नेवान्दे १७४० वैक्रमे तिथ्यकों वृत्तरत्नाकरादर्शश्चेति द्वयं समापितमिति प्रतीयते । श्रतश्च कारणेमहाशयेन किं वा प्रमाणमास्थाय श्राद्धचन्द्रिकाविरचनकाल उपरिनिर्दिष्टः १६८० त्री० लिखित इत्यवगन्तुं न पार्यते । एवं च तिथ्यर्कादनन्तरसमय एव १७४१।१७४२ वा वैक्रमाब्दे श्राद्धचन्द्रिकाया विरचनमिति निश्च पूचम् | अत्र च ग्रन्थकृता तत्र तत्र विवादास्पदेषु स्थलेषु माताह-मातुः पू. पितामह -- मातुः वृ० प्रपितामहादिपदैः श्रीनीलकण्ठ- श्रीरामकृष्णभट्ट -- श्रीनारायणभट्टादीनामेवोक्ति: प्रमाणत्व नावलम्बिता । तदेवं पत्नानां दुर्लभप्रायाणामीदृशानां निबन्धरत्नानां प्रकाशने बद्धपरिकरेण श्रीजयकृष्णदासगुप्तमहाशयेनास्याः श्राद्धचन्द्रिकायाः संशोधने सपश्रयमभिहितोऽहं प्रावर्तिष्येतच्छोधनकर्मणि । आदर्शपुस्तकं चास्या नेपालाभिजन काशीनिवासिन आर्यालोपनामक पण्डितश्रीगजराज केशरिणः सकाशात् स्वर्गीय गुरुचरणैः म० म० पर्वतीय नित्यानन्दशास्त्रिभिः सगृहोतमेकमेव नातिशुद्ध प्राचीनतरं सम्पूर्णमुपलब्धम् । कतिपय मुद्रणानन्तरं च काशिकधर्माधिकारिपण्डितश्रीलक्ष्मीधरपन्तसकाशादपर नातिशुद्धं सम्पूर्णम् । विशदविषयानुक्रमणिकया अत्र प्रमाणत्वेनोद्धृतानां ग्रन्थानां सूच्यादिनिवेशनेन च सपरिश्रमं सम्यक् परिशोधितेऽप्यत्र ग्रन्थे मानुष्यकनान्तरीयकमतिदोषेण शीशकाक्षरयोजकानवधानतया च समभूतानि स्खलि तानि मर्षयित्वा प्रकटयिष्यन्ति निजां गुणैकपक्षपातितां प्रेक्षावतां धुरीणाः । प्रसीदतां चानेन व्यापारेण जनहृदयतत्त्वसाक्षी भगवान् काशिकापुरा धीशः श्रीविश्वेश इत्याशास्ते A १९९१ वैक्रमेऽब्दे शुद्धवैशाख कृष्णपक्षे बुधे पचम्याम् । विदुषां विधेयः श्रीविष्णुप्रसाद भण्डारी ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy