Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ पोलो श्रीषोडश “अथ षोडशकप्रकरणपर्यालोचना वितन्यते." - वितन्यते प्रकरणम् - - RECAR ___ एतदार्याषोडशकप्रकरणं श्रीमत् सर्वज्ञकथितस्याद्वाददर्शनावलम्बिनामतीवोपकारोपजनकमागमोक्ततत्त्वपदार्थपकाशने तिग्मतिग्मरश्मिसमप्रभं श्रीजैनश्वेताम्बरीयाचार्य श्रीमद्धरिभद्रमूरिणा निर्जिताखिलकुमतवादियूथेन व्यरचि, जैनागमानां पूर्वापरावलोकनेन हरिभद्रमूरयस्त्रयोऽभूवन्निति विज्ञायते, एतद्वन्थोपज्ञाता श्रीमद्धरिभद्रमरिविक्रमाब्द षट्शत्यामिमं वसुन्धरापीठं व्यभूपयत्, सूरीश्वरोऽयमगण्यगुणविभूषितमूर्तिः सकलजगत्यां प्रसृमरकीर्तिवातो जैनजैनान्यमतानुयायिजनपूज्यपादारविन्दः सज्जनश्रवणगोचरीभूतः कस्य नो जायते वर्णनीया-13 स्पदम् ? युरोपीय, जर्मनी, प्रभृति देशान्तरीय विद्वज्जना अप्याधुनिकव+पद्धत्येमं हरिभद्रवचनप्रस्तावं स्मारं स्मारं निजान्तःकरणेषु भृशमाविष्कृताश्चर्या जञ्जन्यन्ते, प्रौढार्थप्रख्यापकानां ग्रन्थानां चतुश्चत्वारिंशदधिका चतुर्दशशत्यनेनाचार्येण व्यधायि, प्रायेणाऽयं सूरीश्वरः समुपगतैकपूर्वो बहुश्रुतधारक इत्याचार्यपरम्परातः श्रूयते 'तत्रभवतोऽस्याचार्यस्य जीवनचरित्रं तत्कृतग्रन्थपरिगणनेच यदि कश्चिद्भावुकश्चिकीर्षति तत्र महानेको ग्रन्थः समभिजायतेऽतोऽत्र गौरवभयात् प्रस्तुतग्रन्थस्य संक्षेपणावश्यनिवेदनीयार्थो वित्रियते, ___एतत्सूरीश्वरकृतग्रन्थस्य पृथगर्थवैशयप्रकाशकानां षोडशकप्रकरणानां नामानि यथा, धर्मपरीक्षाभिधमाद्यं षोडशकं द्वितीयंच देशनाख्यं तृतीयं धर्मलक्षणषोडशकं चतुर्थं धर्मेच्छुलिङ्गाभिख्यं पञ्चमञ्च लोकोत्तरतत्त्वप्राप्तिषोडशकं षष्ठञ्च जिनमन्दिराभिधं पोडशकं सप्तमं जिनबिबषोडशकमष्टमंच प्रतिष्ठाविधिषोडशकं नवमंच पूजाखरूपषोडशकं दशमं पूजाफलपोडशकमेकादशञ्च श्रुतज्ञानलिङ्गषोडशकं द्वादशंच Jain Etrucaton international For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 230