Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
________________ // 30 // कायवाङ्मनसां दुष्टप्रणिधानमनादरः / . स्मृत्यनुपस्थापनं च स्मृताः सामायिकव्रते . प्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा / शब्दरूपानुपातौ च व्रते देशावकाशिके उत्सर्गादानसंस्तारानवेक्ष्याप्रमृज्य च / अनादरः स्मृत्यनुपस्थापनं चेति पौषधे सचित्ते क्षेपणं तेन पिधानं काललङ्घनम् / / मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः व्रतान्येभिरतिचारै रहितान्यनुपालयन् / . श्रावकोऽपि विशुद्धात्मा मुच्यते भवबन्धनात् // 32 // ... . // 34 // ॥चतुर्विंशतितमश्रीवीरजिनदेशना-महाव्रतमयी // अहो अपारः संसारः सरस्वानिव दारुणः / कारणं तस्य कर्मैव हन्त बीजं तरोरिव कर्मणा स्वकृतेनैव विवेकपरिवर्जितः / कूपकार इवाधस्ताद्गतिमाप्नोति देहभृत् अप्यूर्ध्वगतिमाप्नोति निजेनैव हि कर्मणा / प्रासादकारक इव शरीरी विशदाशयः प्राणातिपातं नो कुर्यात् कर्मबन्धनिबन्धनम् / स्वप्राणवत् परप्राणपरित्राणपरो भवेत् न मृषा जातु भाषेत किं तु भाषेत सूनृतम् / परपीडां परिहस्नात्मपीडामिवाङ्गवान् अदत्तं नाददीताऽर्थं बाह्यप्राणोपमं नृणाम् / अर्थ हि हरता तेषां वध एव कृतो भवेत् / // 4 // 34
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354