Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 335
________________ // 9 // // 12 // // 14 // बोधितोऽस्मि त्वया साधु दुष्टोऽप्येषोऽहमद्य तत् / भवाद्विरक्तं प्रव्रज्यादानेनानुगृहाण माम् आद्यं गणधरं ज्ञात्वा भाविनं तं जगद्गुरुः / स्वयं प्रव्राजयामास पञ्चशिष्यशतीयुतम् उपनीतं कुबेरेण धर्मोपकरणं ततः / त्यक्तसङ्गोऽप्याददानो गौतमोऽथेत्यचिन्तयत् निरवद्यव्रतत्राणे यदेतदुपयुज्यते / वस्त्रपात्रादिकं ग्राह्य धर्मोपकरणं हि तत् छद्मस्थैरिह षड्जीवनिकाययतनापरैः। . सम्यक् प्राणिदयां कर्तुं शक्येत कथमन्यथा यच्छुद्धमुद्गमोत्पादैषणाभिर्गुणसंयुतम् / गृहीतं सदहिसायै तद्धि ग्राह्यं विवेकिनः ज्ञानदर्शनचारित्राऽऽचारशक्तिसमन्वितः / आद्यन्तमध्येष्वमूढसमयार्थं हिं साधयेत् ज्ञानाऽवलोकहीनो यस्त्वभिमानधनः पुमान् / अस्मिन् परिग्रहाऽऽशङ्कां कुरुते स हि हिंसकः परिग्रहधियं धत्ते धर्मोपकरणेऽपि यः / बालानविदिततत्त्वान् स रञ्जयितुमिच्छति जलज्वलनवायूर्वीतरुत्रसतया बहून् / जीवांस्त्रातुं कथमलं धर्मोपकरणं.विना गृहीतोपकरणोऽपि करणत्रयदूषितः / असंतुष्टः स आत्मानं प्रतारयति केवलम् इन्द्रभूतिविभाव्यैवं शिष्याणां पञ्चभिः शतैः / समं जग्राह धर्मोपकरणं त्रिदशार्पितम् 36 // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354