Book Title: Shabdamala
Author(s): Muktichandravijay, Munichandravijay
Publisher: Shantijin Aradhak Mandal

View full book text
Previous | Next

Page 14
________________ પ્રસ્તાવના भिडी शब्दशक्तिविजृम्भितम् 'मार्कट्वेइन' इत्यभिधममेरिकाराष्ट्रस्य महान्तं हास्यलेखकं कश्चिद् धर्मगुरुः पृष्टवान् : 'भो ! भद्र ! कथं न त्वं मत्प्रवचनसभायां समागच्छसि ?' 'किं कुर्यां तत्राऽऽगत्य ? तत्रभवन्तो यदुपदिशन्ति तत्सर्वोपदेशस्य पुस्तकं मत्समीपे विद्यते एव ।' 'कथमेवं स्यात् ? न मया किञ्चित् मत्प्रवचनानां पुस्तकं प्रकाशितमस्ति । केनापि प्रकाशितं चेत् नाहं जानामि । स्याच्चेद् भवत्समीपे तर्हि प्रेषणीयं तत्पुस्तकम् ।' धर्मगुरुरवक् । स्वस्थानगतेन मार्कट्वेइनेन एकं महत् पुस्तकं धर्मगुरुं प्रति प्रेषितम् । तद् दृष्ट्वा धर्मगुरुराश्चर्यमगात् । यतस्तेन शब्दकोशपुस्तकमेव प्रेषितमासीत् । सहाऽऽगते पत्रके च लिखितमभूत् यत्-एतान् पुस्तकस्थान् शब्दान् विहाय भवन्तः उपदेशे कान् शब्दान् प्रयुञ्जते ? प्रवचने यद् भवन्तः ब्रुवन्ति ते सर्वे शब्दाः अस्मिन् समाविशन्ति । भवतां समग्रोपदेशानां पुस्तकं मत्समीपेऽस्तीति कथ्यते न वा ? स्वयमेव चिन्तयन्तु भवन्तः । धर्मगुरुराश्चर्यमग्नोऽभूत् । हास्यलेखकेनाऽत्राऽपि हास्यकला प्रयुक्ता । मार्कट्वेइनेन यद्यपि उपहासः कृतः, तथापि इदं तु सत्यमेव यत् सर्वे उपदेशाः, सर्वाणि शास्त्राणि सर्वे च वार्तालापाः शब्देभ्य एव जायते । पशुभ्यः मनुष्याणां एतावान् विशेषः प्रायः शब्दनिमित्तकः एव । गो-महिष्यादिपशवः स्वस्वानुरूपं भाषन्ते किन्तु मनुष्यवत् न शब्दान्. प्रयोक्तुं शक्नुवन्ति । केचित् शूकादयः शब्दान् प्रयोक्तुं प्रभविष्णवोऽपि स्युः किन्तु शब्दार्थज्ञाने तु अप्रभविष्णव एव । 13

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 474