Book Title: Shabdamala
Author(s): Muktichandravijay, Munichandravijay
Publisher: Shantijin Aradhak Mandal

View full book text
Previous | Next

Page 17
________________ अत एव शब्दानां सम्यक् प्रयोगः सर्वेभ्योऽपि महत्तमा घटनाऽस्ति । महात्मना पतञ्जलिना तु कथितं यत् सम्यक् ज्ञातः सुप्रयुक्तश्च एकः शब्दः इहलोके परलोके च इष्टार्थप्रदो भवति । वेदेष्वपि सुप्रयुक्तः शब्दः परमेश्वर-प्राप्तिकारणत्वेन प्रतिपादितोऽस्ति । 'हे प्रकाशमयपरमात्मन् ! अहं वचनद्वारा त्वां प्राप्तुमीहे' इत्येवम्भूता तत्र प्रार्थना कृताऽस्ति । यदि शब्दसाहाय्यात् प्रभुप्राप्तिं यावत् गम्येत तर्हि ते शब्दा: सम्यग् ज्ञेयाः, तदर्था अपि सम्यग् ज्ञेया इति नितान्तमावश्यकं भवति । तदर्थं शब्दकोशशरणग्रहणं श्रेयस्करमावश्यकतमं च । शब्दकोषं विहाय नहि शब्दानां सम्यगर्थनिर्णयो भवति । शब्दानां सम्यगर्थनिर्णयार्थमेव शब्दकोशानां रचनाः जायन्ते । शब्दकोश: विदुषां मूलधनम् । राज्ञां धनकोशः आवश्यकः तद्वत् विदुषां शब्दकोशः आवश्यकः । कोशं विना द्वावपि दरिद्रौ स्तः । शब्दकोश - साहित्यम् अद्यप्रभृति प्राचीना अर्वाचीमाश्च विद्वांसः अनेकशब्दकोशान् रचितवन्तः । प्राचीनतमकोशेषु कात्यायनस्य नाममाला, वाचस्पतेः शब्दार्णवः, विक्रमादित्यस्य संसारार्णवः, भागुरेः त्रिकाण्डः, धन्वन्तरे: निघण्टुः, यास्कस्य निरुक्तः, अमरसिंहस्य अमरकोशः - इत्यादयः मुख्याः शब्दकोशाः सन्ति । एषु 'अमरकोशः' प्रसिद्धः सम्प्रति च २. एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति । पातंजलमहाभाष्य, प्रथम आह्निक ३. अग्ने त्वां कामये गिरा । ४. अभिधानकोशतः पदार्थनिश्चयः । - सामवेद (८) वामन (काव्यालङ्कारसूत्र १ । ३ । ५ ) 16

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 474