________________
પ્રસ્તાવના
भिडी
शब्दशक्तिविजृम्भितम्
'मार्कट्वेइन' इत्यभिधममेरिकाराष्ट्रस्य महान्तं हास्यलेखकं कश्चिद् धर्मगुरुः पृष्टवान् : 'भो ! भद्र ! कथं न त्वं मत्प्रवचनसभायां समागच्छसि ?'
'किं कुर्यां तत्राऽऽगत्य ? तत्रभवन्तो यदुपदिशन्ति तत्सर्वोपदेशस्य पुस्तकं मत्समीपे विद्यते एव ।'
'कथमेवं स्यात् ? न मया किञ्चित् मत्प्रवचनानां पुस्तकं प्रकाशितमस्ति । केनापि प्रकाशितं चेत् नाहं जानामि । स्याच्चेद् भवत्समीपे तर्हि प्रेषणीयं तत्पुस्तकम् ।' धर्मगुरुरवक् । स्वस्थानगतेन मार्कट्वेइनेन एकं महत् पुस्तकं धर्मगुरुं प्रति प्रेषितम् । तद् दृष्ट्वा धर्मगुरुराश्चर्यमगात् । यतस्तेन शब्दकोशपुस्तकमेव प्रेषितमासीत् । सहाऽऽगते पत्रके च लिखितमभूत् यत्-एतान् पुस्तकस्थान् शब्दान् विहाय भवन्तः उपदेशे कान् शब्दान् प्रयुञ्जते ? प्रवचने यद् भवन्तः ब्रुवन्ति ते सर्वे शब्दाः अस्मिन् समाविशन्ति । भवतां समग्रोपदेशानां पुस्तकं मत्समीपेऽस्तीति कथ्यते न वा ? स्वयमेव चिन्तयन्तु भवन्तः ।
धर्मगुरुराश्चर्यमग्नोऽभूत् ।
हास्यलेखकेनाऽत्राऽपि हास्यकला प्रयुक्ता ।
मार्कट्वेइनेन यद्यपि उपहासः कृतः, तथापि इदं तु सत्यमेव यत् सर्वे उपदेशाः, सर्वाणि शास्त्राणि सर्वे च वार्तालापाः शब्देभ्य एव जायते ।
पशुभ्यः मनुष्याणां एतावान् विशेषः प्रायः शब्दनिमित्तकः एव । गो-महिष्यादिपशवः स्वस्वानुरूपं भाषन्ते किन्तु मनुष्यवत् न शब्दान्. प्रयोक्तुं शक्नुवन्ति । केचित् शूकादयः शब्दान् प्रयोक्तुं प्रभविष्णवोऽपि स्युः किन्तु शब्दार्थज्ञाने तु अप्रभविष्णव एव ।
13