________________
शब्दार्थज्ञानशक्तिः प्रधानरूपेण मनुष्याधीनाऽस्ति । अत एव ते विकासमार्गे अग्रेसराः भवन्ति । शब्दार्थज्ञानप्रभावादेव मानवाः पूर्वकालीनमहर्षिविचारान् ज्ञातुं प्रभवन्ति । ज्ञातांश्च विचारान् शब्दसाहाय्यादेव अन्यान् कथयितुं पारयन्ति । शब्दसाहाय्यादेव तान् विचारान् ग्रन्थस्थान् कृत्वा ते भाविकालार्थं मार्गदर्शकाः भवितुं प्रभवन्ति । शब्दसाहाय्यादेव आदान-प्रदानादिकं सर्व सम्यग् व्यवहर्तुं शक्नुवन्ति ।
शब्दशक्तिः ज्योतिरस्ति, यत्प्रभावात् सर्वं जगदिदमालोकितं भवति । यदि तत् निर्वाणं गच्छेत् तर्हि सर्वं विश्वमिदं तमोमग्नं स्यात् मानवः पशुः जायेत ।
श्रूयते यत् शब्देभ्योऽपि मौनं बलवत्तरम् । यदि शब्दः रजतमस्ति तर्हि मौनं कनकमस्ति । किन्तु मौनस्य महिमाऽपि शब्दकारणादेव । यो वक्तुमसमर्थः, न तस्य मौनं मूल्यवद् भवति । वृक्षाश्मनगादयोऽपि मौनावलम्बिनः एव । निगोदस्था अनन्ता जीवा अपि मौनधारिणः एव, किन्तु न तेन्मौनस्य मूल्यम् ।
ननु सिद्धशिलागता अनन्ताः सिद्धभगवन्तोऽपि मौनिनः एव । सत्यम्, किन्तु द्वयोः मौने मौलिको विशेषोऽस्ति । निगोदनगवृक्षादीनां मौनं परवशताऽस्ति, अज्ञानमस्ति । सिद्ध-भगवतां, मौनं परमा निःशब्दा चिन्मयाऽवस्था अस्ति । स्थिरचक्रं चक्रम्यमाणं चक्रं च एते द्वे अपि स्थिरे दृश्येते किन्तु द्वयोः मौलिको भेदोऽस्ति. तद्वत् निगोदे निर्वाणे च भेदो ज्ञातव्यः ।
मनुष्यलोकमध्यगताः अर्हन्तः देशनाद्वारा परोपकाररूपं महत् कार्यं कुर्वन्ति अत एव चतुष्कर्मयुतानां तेषां स्थानं नष्टाष्टकर्मभ्यः सिद्धेभ्यः प्रथममस्ति । अद्यप्रभृति ये केऽपि सिद्धास्ते सर्वेऽ
इदमन्धं तमः कृत्स्नं, जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥
- दंण्डी (काव्यादर्श)