________________
र्हत्प्रभावादेव । यावदर्हन्तो धरणीतले विहरन्ति तावत् प्रायेण प्रतिदिनं देशनाद्वारा परोपकारं कुर्वन्ति एव ।
शब्दान् विना (देशनां विना) न कैरपि अर्हद्भिः तीर्थस्थापना कृता, न वा केऽपि करिष्यन्ति । चरमतीर्थपति प्रभुश्री महावीरेण तु षोडशप्रहरान् यावत् चरमदेशना दत्ता ।
महापुरुषाणां वचनैरनेकेषां जीवनं मङ्गलमार्गे परिवर्तितं भवति । शब्दप्रभावः कथं वर्ण्येत ? शब्दप्रभावादनेके घातुकाः करुणाब्धयो दृढप्रहार्याद्याः जाताः, अनेकेऽनृताशंसिनः सत्यवादिनो हरिश्चन्द्राद्या जाता:, अनेके लुण्टाकाः महात्मानो वाल्मीकाद्या जाता:, अनेकाः कुलटाः महासत्यः सीताद्याः जाता:, अनेके कृपणाः दानवीराः कर्णाद्याः जाता: रे, दन्दशूका अपि गारुडिकवीणानादप्रभावात् स्वशिरांसि धूनयन्ति, देवा अपि शब्दमयमन्त्रप्रभावात् किङ्करायन्ते स्वर्गसुखानि च विहाय मान्त्रिकेच्छापूरणार्थं भृशं प्रयतन्ते । श्रूयते चाधुनिकयुगे यत् शब्दशक्तिप्रभावाद् वृक्षादयोऽपि रोषं-तोषादिकं प्रकटयन्ति । इदं सर्वं शब्दशक्तिविजृम्भितम् ।
'सबद हि ताला, सबद हि कुञ्ची'
शब्दशक्तिप्रभावस्तु महानस्त्येव किन्तु तच्छब्दः प्रयोक्तव्यः इति महत्तमः प्रश्नः । यतः शब्दो द्विधारासहिताऽसितुल्यो वर्तते । स सम्यक् प्रयुज्येत चेद् गीतं स्यात्, अन्यथा गालिरपि स्यात् । एतैरेव शब्दैरनेकैः महर्षिभिः सन्मार्गदर्शकानि शास्त्राणि निर्मितानि, एतैरेव शब्दैरनेकैः महर्षिभिः सन्मार्गदर्शकानि शास्त्राणि निर्मितानि, एतैरेव च शब्दैरनेकैः कापुरुषैरुन्मार्गप्रवर्तकान्यपि शास्त्राणि रचितानि सन्ति । अत एव प्रायः गोरखनाथेन कथितं यत्, 'सबद हि ताला, सबद हि कुंची' इति । शब्द एव हि तालकं, शब्द एव हि कुञ्चिका । यतः शब्दादुपकारोऽपि स्यात्, अपकारोऽपि वा स्यात् ।
कथं