Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 94
________________ अनुसन्धान ४९ एवं सङ्ख्यावाचकाः शब्दाः समाप्ताः । त्रिषष्टिशलाकापुरुषाणामिवाऽहो युष्मदस्मदां दुर्लक्ष्याणीह रूपाणि । तेषामपि यथा यथा त्रिषष्टिरूपयुष्मदस्मदौ समाप्तौ स्तः । परिशिष्टम् ॥ शतृ-क्वसू नाद्यानि परस्मै च (नवाऽऽद्यानि शतृ-क्वसू च परस्मैपदम्) [सि० ३-३-१९] आत्मनेपदं कानानशौ पराणि (पराणि कानानशौ चाऽऽत्मनेपदम्) [सि० ३-३-२०] स्यादिति । ||द०|| अकार उच्चारार्थः । यथा-वद वि(व्य)क्तायां वाचि । आ: । आदितः [सि० ४-४-७१] इति सूत्रेण क्तयोरिट्निषेधार्थः । यथा-नि(त्रि)मिदाङ्-नेहने, मिन्नः, मिन्नवान् । इ: । इडितः कर्तरि [सि० ३-३-२२] अनेनाऽऽत्मनेपदार्थः । यथाएधि-वृद्धौ, एधते । ईः । इरी (ई)गित: [सि० ३-३-९५] इत्यनेन फलवति कर्तयात्मनेपदार्थः । यथा- वहीं-प्रापणे, वहते । उ: । उदित: स्वरान्नोऽन्तः [सि० ४-४-९८] इत्यनेन नाऽऽगमार्थः । यथा-टुनदु-समृद्धौ, नन्दति । ऊः । ऊदितो वा [सि० ४-४-४२] इति क्त्वादौ इट्विकल्पः । यथाक्रमू-पादविक्षेपे, क्रन्त्वा, क्रमित्वा । ऋः । उपान्त्यस्या [ऽसमानलोपि शास्वृदितो डे सि० ४-२-३५] इत्यनेन डपरे णौ उपान्त्यहूस्वाभावार्थः । यथा-ओ-अपनयने, मा भावात् (भवान्) ओणिणत् । ऋः । ऋदिवि [स्तम्भू-म्रचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-श्रो(ज्रो) वा सि० ३-४-६५] इत्यनेनाऽद्यतन्यां विकल्पेन अर्थः । यथा-रुधूपी-आवरणे, अरुधत्, अरौत्सीत् । लः । तृदिद्-धुतादि [पुष्यादेः परस्मै सि० ३-४-६४] इत्यनेन अडर्थः । यथा-घस्तृ-अदने, अघसत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97