Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 95
________________ सप्टेम्बर २००९ लृर्नास्ति । एः । न श्वि-जागृ [शस क्षणम्येदितः सि० ४-३-४९] इत्यनेन सिचि वृद्धिनिषेधार्थः । यथा - लगे-सङ्गे, अलगीत् । ऐः । डीयश्व्यैदितः क्तयोः [सि० ४-४-६१] इति इनिषेधार्थः । यथा- त्रस्तः, त्रस्तवान् । ओः । सूयत्याद्योदितः [ सि० ४-२ - ७०] क्तयोः तस्य नकारार्थः । यथा- ओलसजेड् (ओलस्जैति) - व्रीडे, लग्न, लग्नवान् । ९५ औ: । धूगौदित: [ सि० ४-४-३८] इति इट् विकल्पार्थः । यथा-गुपौरक्षणे, गोपाय ( यि )ता, गोप्ता । अनुस्वारः एकस्वरादनुस्वारेतः [सि० ४-४५६ ] इति इनिषेधार्थः । यथा- पां- पाने, पास्यति, पाता । णींग-प्रापणे, नेष्यति, नेता । डुक्रींग्श्- द्रव्यविनिमये, क्रेष्यति, क्रेता । विसर्गे नास्ति । इति स्वराद्यनुबन्धफलम् । अथ कादयोऽनुबन्धाः । धातुषु प्रत्ययेषु च यथासम्भवं दर्शयिष्यन्ते । कः । अदादेरुपलक्षणार्थस्तथा प्रत्ययेषु गुणनिषेधार्थः । यथा - क्वक्वत्- (क्त क्तवतु) क्तिषु कृत: - कृतवान्- कृतिः । खः । प्रत्ययानां खित्यनव्ययारुषो मोऽन्तो हुस्वश्च [ सि० ३-२-१११] इति पूर्वपदस्य मागमार्थः । यथा - मेघं करोतीति मेघङ्करः । मेघर्तिभयाभयात् ख: [ सि० ५-१-१०६] इति खप्रत्यये । गः । ईगित: [ सि० ३-३-९५] इति फलवत्कर्तर्यात्मनेपदार्थ: । यथाश्रिग्- सेवायाम्, श्रयते । घः । घञ्- घ्यणादिषु, तेऽनिटश्चजो: कगौ घिति [ सि० ४ - १ - १११] अत्र विशेषणार्थः । यथा- 'डुपचींष्- पाके, घञि पाकः । त्यजं - हानौ त्यागः । ङः । इङिग: (इति) कर्तरि [ सि० ३-३-२२] आत्मनेपदार्थः । शीङ्क - स्वप्ने, शेते । प्रत्ययार्थानां गुणनिषेधार्थः । यथा- ऋतेर्डीयः [ सि० ३ - ४ - ३] ऋतीयते । चः । दिवादिलक्षणार्थः । यथा छजझा न सन्ति । ञः । [ज्ञानेच्छार्चार्थ ] जीच्छील्यादिभ्यः क्तः [ सि० ५-२-९२] इति वर्तमाने कार्थः । ञिष्वपंक् शये, स्वपितीति सुप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97