Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 96
________________ अनुसन्धान ४९ टः । स्वादिलक्षणार्थः । प्रत्ययेषु स्त्रियां, अणत्रेयेकण् निञ्-स्नञ्टिताम् सि० २-४-२०] इत्यर्थः । यथा-कृगः खनट करणे [सि० ५-११२९] पलितङ्करणी जरा । तथा, वोज़ दघ्नट् द्वयसट् [सि० ७-१-१४२] जानी(नु)दघ्नी, जानुद्वयसी । तथा-ट्वे-पाने, स्तनंधयी । टफलं स्त्रियां डीप्रत्ययः । ठो नास्ति । डः । डित्यन्त्यस्वरादेः [सि० २-१-११४] इत्यर्थविशेषणार्थः । यथाडिडौँ [सि० ] मुनौ, धेनौ । धातुषु ङः शब्दः । ड्वितस्त्रिम तत्कृतम् [सि० ५-३-८४] इत्यत्र विशेषणार्थः । यथा- डुकंग्-करणे, करणे निवृत्तं कृत्रिमः । णः । चुरादिषु लक्षणार्थः । प्रत्ययानां वृद्ध्याद्यर्थः । यथा-णिगि कारयति, तथा करोतीति कारकः, णक-तृचौ [सि० ५-१-४८] । तथा उपगोरपत्यम् औपगवः । डसोऽपत्ये [सि० ६-१-२८] प्राग् जितादण् [सि० ६-१-१३] । तः । तुदादिलक्षणार्थः । थ-द-धा न सन्ति । नः । इच्चाऽपुंसोऽनति(नित्) क्याप्परे [सि० २-४-१०७] इत्यत्र विशेषणार्थः । यथा-जीवतात् । जीवका आशिष्यकन् [सि० ५-१-७०] । तथा अनुकम्पिता दुर्गादेवी दुर्गका, लुक्युत्तरपदस्य कपन् [सि० ७-३-३८] । पः । रुधादिलक्षणार्थ: । प्रत्ययेषु, हूस्वस्य तु(तः) पित्कृति [सि० ४४-११३] इति तागमार्थः । यथा-तीर्थं करोतीति तीर्थकृत् क्विपि । क्यड्मानि पित्तद्धिते [सि० ३-२-५०] इत्यनेन विशेषणार्थः । यथा- अजाभ्यो हितम्, अजथ्यं यूथम् । फ-ब-भा न सन्ति । मः । दाम्-दाने दामः सम्प्रदानेऽधये(h) चाऽऽत्मने च [सि० २२-५२] इत्यादौ विशेषणार्थः । यथा-दास्यै (स्या) संप्र[य]च्छते कामुकः । यः । तनादिलक्षणार्थः । रः । रिति [सि० ३-२-५८] इति सूत्रेण पुम्वद्भावार्थः । यथा-पट्वी प्रकारोऽस्या, पटुजातीयः । प्रकारे जातीयर् [सि० ७-२-७५] । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97