Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 13
________________ शब्दकौस्तुभे मनुबन्धकार्य नेति सामान्यापेक्षज्ञापकात् । तदनुबन्धकपरिभा या वा । शत्रादौ तु सामर्थ्यात् सा न प्रवर्त्तते ऌटि तु न सामर्थ्यम् । लुलुटोरित्यादौ चरितार्थत्वात् ॥ ६ ॥ वनो र च ॥ ७ ॥ 1 वनन्तात् प्रातिपदिकात् स्त्रियां ङीप्स्याद्रश्चान्तादेशः । इह वमिति ङ्गनिपूकनिब्बनियां सामान्यग्रहणम् । प्रत्ययग्रहणे तदन्तग्रहणम् । तेन प्रातिपदिके विशेषणात्तदन्तान्तं लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी । व्यपदशिवद्भावाद्वन्नन्तादपि भवति । न चाप्रातिपदिकेनेति निषेधः शक्यः । तस्यास्माभिर्येन विधिरिति सूत्र एव प्रत्याख्यातत्वात् । स्त्रं रूपमित्यस्यानुवृत्तेश्च । तस्य चेति वार्त्तिकं सर्वशेष इति भाष्ये एव स्थापितत्वाच्चेति दिकू ! ऋनेभ्य इति कीपमनूद्य तत्सन्नियोगेन रेफमात्रं विधीयते । स्यादेतत् । बहवो धीवानो यस्यामिति विग्रहे बहुधीवरीति पाक्षिकामिष्यते । तन्न सिद्ध्यति । अत उपबालोपिन इति ङीपि लब्धे ऽपि तस्य प्रकरणान्तरस्थतया तत्सन्नियोगेन रेफस्य दुर्लभत्वात् । स हि ऋनेभ्य इत्यनेन ङीपा सन्नियोगशिष्टः । उच्यते । बहुधीवरीस्यत्रापि ऋनेभ्य इत्यनेन ङीप् । अत एव रेफः सिद्ध्यति । न चानो बहुव्रीहेरिति तन्निषेधः शक्यः । डावुभाभ्यामित्येव निबेघडापोः पर्याये लब्धे तत्रत्यस्यान्यतरस्याङ्ग्रहणस्य निषेधडाब्भ्यां मुक्ते प्रकृतङीबपि प्रवर्त्ततामित्येतदर्थत्वात् । न चैवं मन्नन्ते ऽपि स्नेप्प्रसङ्गः । व्यवस्थितविभाषाश्रयणात् योगविभागाद्वा । तथा हि । डावुभाभ्याम् । मन्नन्तादभन्तबहुब्रीहेश्व डाप्स्यात् । सामर्थ्यात् पर्यायः । इतरथा हि मनोडापू अनोबहुवीहेरि

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 242