Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 11
________________ ६ शब्द कौस्तुभे I जाद्यर्थ एवेति चेन्न । तथापि तस्य पदान्तर समभिव्याहारसापेक्षतया बहिरङ्गत्वात् । दाविधेस्तु अन्तरङ्गे चरितार्थत्वात् । परमाजेति तर्हि कथमिति चेत् । प्रागुत्पन्नस्यैव तत्र श्र वणादित्यवेहि । अत्यमा निरजेति तु अदन्तप्रयुक्तष्टापू । न च पञ्चाजीत्यादावपि तथाऽस्त्विति वाच्यम् । द्विगोरिति ङीपा वाधितत्वात् । अजा | एडका । अश्वा । चटका | मूषिका । एषु जातिलक्षणो ङीप् प्राप्तः । वृश्चिकृषोः किकिन्नित्यधिकारे सुपेद्दति किकिनि इकारमध्यो मूषिकः । यस्तु मृष स्तेये इति दीर्घोपधात् संज्ञायां क्वनि मूषकशब्दो माधवेनोक्तस्ततो ऽप्ययं टापू | प्रत्ययस्थादितीत्वमिति तु विशेषः । व्याघ्रीतिवत् संज्ञात्वेऽपि जातित्वानपायान् ङीष्प्राप्तिरवधेया । बाला । वत्सा | होडा | मन्दा । विलाता । एषु वयसि प्रथम इति ङीष्प्राप्तः । पूर्वापहाणा । अपरापहाणा । अण्णन्तः । निपातनाण्णत्वम् । 1 46 ( सम्भवाजिनशण पिण्डेभ्यः फलात् ) " । संफला । भस्त्रफला । ङयापोः संज्ञाछन्दसोर्बहुलमिति ह्रस्वः । एतच्च फल निष्पत्ताविति धातौ माधवग्रन्थे स्थितं भाष्ये तु दीर्घ एव प्रायशः पठ्यते । सत्प्राक्क्काण्डप्रान्तशतैकेभ्यः पुष्पात् | पाककर्णेत्यादिसूत्रस्थभाष्यवार्त्तिकपर्यालोचनयेह प्राक्शब्दान्तर्गत: प्रशब्दो न पाठ्यः । सदच्काण्डेति तत्र पाठात् । प्राकूपुष्पा । प्रत्यकूपुष्पा इत्युदाहरणाच्च । इह "शूद्रा चामहत्पूर्वा जातिरिति पव्यते । अस्यार्थः । शूद्रशब्दष्टापमुत्पादयति जातित् महत्पूर्वस्तु न जातिवेदित्यनुषङ्गः । शूद्रा । जातिः । पुंयोगे तु शूद्री । कथं तर्हि वैश्यशूद्योश्च राजन्यान्माहिष्योग्रौ सुतौ स्मृताविति उच्यते । अस्तीहापि जन्यजनकभावः पुंयोगः । न

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 242