Book Title: Sarvsiddhantpraveshika
Author(s): Chirantanmuni, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust Ahmedabad

View full book text
Previous | Next

Page 10
________________ ॥ श्रीशङ्गेश्वरपार्श्वनाथाय नमः ॥ ॥ णमोत्थु णं समणस्स भगवओ महावीरस्स ॥ ॥ श्रीसिद्धचक्राय नमः ॥ विज्ञपनम् सज्जना विद्वन्महोदया : ! अद्य भवतां पुरः सर्वसिद्धान्तस्वरूपावेदकतया यथार्थाभिधानं सर्वसिद्धान्तप्रवेशकाभिधानमिदं ग्रन्थरत्नमुपस्थाप्यते । जेसलमेरदुर्गे जैनग्रन्थागारे विद्यमानं तालपत्रेषु लिखितं प्राचीनमादर्शद्वयमवलम्ब्य सम्पादितोऽयं ग्रन्थः । अस्य कर्तुर्नाम द्वयोरप्यादर्शयोरन्तः कुत्रचिदप्यदर्शनाद् न विज्ञायतेऽस्माभिः । तथापि प्रारम्भिकपद्यानुसारेण जैन एवास्य ग्रन्थस्य विरचयितेति स्फुटमेव प्रतीयते । एक आदर्शो वैक्रमे १२०१ वर्षे लिखितः, अपरस्तु ततोऽपि पञ्चाशद्देशीयैर्वर्षेः प्राचीनः । ग्रन्थस्य बाह्याभ्यन्तराङ्गपर्यालोचनया अस्य कर्तारो जैनमुनयः षड्दर्शनसमुच्चयविरचयितृभ्यो याकिनीमहत्तराधर्मपुत्राचार्यप्रवरश्रीहरिभद्रसूरिभ्योऽनन्तरं वैक्रमीयद्वादशशताब्दीतश्च पूर्वं कदाचिदपीदं भूमण्डलमलञ्चकुरिति विभाव्यते । न्याय-वैशेषिक-साङ्ख्य- बौद्ध-जैनमीमांसा-लोकायतिकदर्शनानां तस्मिन् काले प्रधानतया प्रसिद्धानां सिद्धान्ता अत्र तत्तद्दर्शनसत्कप्राचीनग्रन्थानुसारेण वर्णिताः । यद्यपीदं वर्णनं किञ्चित् संक्षिप्तं तथापि सुयोग्याध्यापकच्छात्रयोर्योगे महते ज्ञानलाभाय प्रभविष्यत्ययं ग्रन्थ इति निश्चितं नश्चेतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46