________________
॥ श्रीशङ्गेश्वरपार्श्वनाथाय नमः ॥
॥ णमोत्थु णं समणस्स भगवओ महावीरस्स ॥ ॥ श्रीसिद्धचक्राय नमः ॥
विज्ञपनम्
सज्जना विद्वन्महोदया : !
अद्य भवतां पुरः सर्वसिद्धान्तस्वरूपावेदकतया यथार्थाभिधानं सर्वसिद्धान्तप्रवेशकाभिधानमिदं ग्रन्थरत्नमुपस्थाप्यते । जेसलमेरदुर्गे जैनग्रन्थागारे विद्यमानं तालपत्रेषु लिखितं प्राचीनमादर्शद्वयमवलम्ब्य सम्पादितोऽयं ग्रन्थः । अस्य कर्तुर्नाम द्वयोरप्यादर्शयोरन्तः कुत्रचिदप्यदर्शनाद् न विज्ञायतेऽस्माभिः । तथापि प्रारम्भिकपद्यानुसारेण जैन एवास्य ग्रन्थस्य विरचयितेति स्फुटमेव प्रतीयते । एक आदर्शो वैक्रमे १२०१ वर्षे लिखितः, अपरस्तु ततोऽपि पञ्चाशद्देशीयैर्वर्षेः प्राचीनः । ग्रन्थस्य बाह्याभ्यन्तराङ्गपर्यालोचनया अस्य कर्तारो जैनमुनयः षड्दर्शनसमुच्चयविरचयितृभ्यो याकिनीमहत्तराधर्मपुत्राचार्यप्रवरश्रीहरिभद्रसूरिभ्योऽनन्तरं वैक्रमीयद्वादशशताब्दीतश्च पूर्वं कदाचिदपीदं भूमण्डलमलञ्चकुरिति विभाव्यते । न्याय-वैशेषिक-साङ्ख्य- बौद्ध-जैनमीमांसा-लोकायतिकदर्शनानां तस्मिन् काले प्रधानतया प्रसिद्धानां सिद्धान्ता अत्र तत्तद्दर्शनसत्कप्राचीनग्रन्थानुसारेण वर्णिताः । यद्यपीदं वर्णनं किञ्चित् संक्षिप्तं तथापि सुयोग्याध्यापकच्छात्रयोर्योगे महते ज्ञानलाभाय प्रभविष्यत्ययं ग्रन्थ इति निश्चितं नश्चेतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org