SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ जैनसाहित्यविकासमण्डलस्य मुख्यसंचालकानां स्वबुद्धिविभव-. विपुलव्ययेन नानाविधजैनसाहित्यसंशोधनप्रकाशनादिष्वमितमुत्साहमाबिभ्रतां मन्त्रादिविविधविद्यारसिकानां कलाप्रियाणां श्रुतज्ञानोपासकानां देवगुरुधर्मानुरागिणां श्रेष्ठिश्रीकालिदासात्मजानां श्रीअमृतलालभाई दोशी बी.ए. महोदयानामुत्साहेनैवायं ग्रन्थः जैन साहित्यविकासमण्डलेन प्राक् वि. सं. २०२० वर्षे प्रकाशितः । अतस्तेभ्योऽत्र धन्यवादान् वितरामि । सम्प्रति तु तस्य द्वितीयं संस्करणं प्रकाश्यते । क्वचित् तुलनात्मकैः क्वचिच्च स्पष्टताविधायिभिष्टिप्पणैः समलङ्कृत्य पाठान्तरादिभिश्च संस्कृत्य यथामति च संशोध्य सम्पादितोऽयं ग्रन्थः परमात्मनो गुरुदेवस्य च प्रसादात् । अस्य ग्रन्थस्याध्ययनाध्यापनाभ्यामस्माकं परिश्रमं सज्जनाः फलेग्रहिं कुर्युः । -इति विज्ञपयति पूज्यपादाचार्यमहाराज श्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः कार्तिकशुक्लपूर्णिमा, विक्रमसं० २०६१, ता. २६-११-४ शुक्रवासरः कुम्भण (ता. महुवा, जिल्ला-भावनगर) Pin-364290, गुजरातराज्यम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001341
Book TitleSarvsiddhantpraveshika
Original Sutra AuthorChirantanmuni
AuthorJambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust Ahmedabad
Publication Year2004
Total Pages46
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy