Book Title: Sarvsiddhantpraveshika
Author(s): Chirantanmuni, Jambuvijay
Publisher: Siddhi Bhuvan Manohar Jain Trust Ahmedabad

View full book text
Previous | Next

Page 44
________________ २१ लोकायतिकमतम् तत्त्वान्तरम्, तदप्यसम्बद्धमेव, यत आह सूत्रकार:-"जलबुद्बदवज्जीवाः" [बृह० सू०], तथा "चैतन्यविशिष्टः कायः पुरुषः" [बृह० सू०] । ननु च पुरुषार्थः कश्चित् तत्त्वान्तरं भविष्यति । तन्निवृत्त्यर्थमाह-"प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः" [बृह० सू०] स च “काम एव" [बृह. सू०], नान्यो मोक्षादिः । ननु चान्य एव कश्चिद बुद्धयाधारः पुरुषो भविष्यति । दृष्टहान्यदृष्टकल्पनासम्भवान्नान्यः । तस्मात् स्थितमेतत्-‘चत्वार्येव तत्त्वानि' । __ अथ प्रमाणम् । तस्य सामान्यलक्षणम्-अनधिगतार्थपरिच्छित्तिः प्रमाणम् । उपायो वा सन्निकर्षेन्द्रियार्थादि । “सन्निहिततदर्थे यथार्थविज्ञानं प्रत्यक्षम्" [बृह० सू०] । प्रत्यक्षस्येदं लक्षणम् । तन्मते "प्रत्यक्षमेवैकं प्रमाणम्' [बृह० सू०] । ननु चोक्तम्-"असन्निहितार्थमनुमानम्" [बृहः सू०] । तच्च परमतानुसारेण न स्वमतापेक्षयेति स्थितमिति लोकायतानां संक्षेपतः प्रमाणप्रमेयस्वरूपम् । *इति लोकायतराद्धान्तः समाप्तः । सर्वसिद्धान्तप्रवेशकः समाप्तः । नैयायिक-वैशेषिक-जैन-साङ्ख्य-बौद्ध-मीमांसक-लोकायतिकमतानि सङ्कपतः समाप्तानि । १. धर्मसं० वृ० पृ० २७ A । षड्द० बृ० ॥ २. शास्त्रवा० स्वो० पृ० ५ B । षड्द० बृ० ॥ ३. "साध्या वृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मता तेषां धर्मः कामात् परो न हि ॥८६।।"-षड्द० ॥ ४. "तत्त्वसंख्या न युज्यते चत्वार्येव तत्त्वानि इति ।"-शास्त्रवा० स्वो० पृ० ८ A | "चत्वार्येव पृथिव्यादीनि तत्त्वानि' इति तत्त्वनियमसंख्याव्याघातप्रसङ्गः ।''-धर्मसं० वृ० पृ० ३७ B ॥ ५. यदि सन्निहितोर्थः यथा विज्ञानं A ॥ ६. प्रत्यक्षम् B मध्ये नास्ति ॥ ७. "प्रत्यक्षमेवैकं प्रमाणम्' इति वचनात्"-धर्मसं० वृ० पृ० ६५ BI "प्रत्यक्षमेवैकं प्रमाणं नान्यत्' इति वचनात्'"-धर्मसं० वृ० पृ० ३७ B -६३ A || ८. चोक्तं परार्थमनुमानम् A || ९. “स्वरूपं समाप्तमिति B ॥ १२. ★★ एतच्चिह्नान्तर्गतः पाठ: B मध्ये नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46